________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वायेति विलम्बकरणापचारनिवृत्त्यर्थं वन्दनम् अतएव सम्भ्रान्त इति वक्ष्यति ॥ १२-१४॥ अगस्त्येनोच्यत इत्यगस्त्यवचनम्, अगस्त्योक्तमित्यर्थः । सुसत्कृतं सविनयवाक्येन बहुमतम् ॥ १५॥ आश्रमं मुनिगृहम् ॥१६॥ अयं तत्र देवपूजागृहाण्यपश्यदित्याह-स तत्रेत्यादि । तत्र अगस्त्यगृहे । ब्रह्मणः चतुर्मुखस्य । अग्नेः पावकस्य । तथैव चेति निपातसमुदायस्समुच्चये ॥१७॥ भगो देवताविशेषः॥१८॥१९॥ पाशहस्तस्येत्यादिविशेष
ततो गत्वाश्रमदारं शिष्येण सहलक्ष्मणः। दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् ॥ १४॥ तं शिष्यः प्रश्रितो वाक्यमगस्त्यवचनं ब्रुवन् । प्रावेशयद्यथान्यायं सत्कारार्ह सुसत्कृतम् ॥१५॥ प्रविवेश ततो रामः सीतया सह लक्ष्मणः। प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन् ॥ १६॥ स तत्र ब्रह्मणःस्थानमग्नेः स्थान तथैव च । विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः॥ १७॥ सोमस्थानं भगस्थानं स्थानं कौबेरमेव च । धातुर्विधातुः स्थाने च वायोः स्थानं तथैव च ॥१८॥ नागराजस्य च स्थानमनन्तस्य महात्मनः। स्थानं तथैव गायत्र्या वसूनां
स्थानमेव च॥१९॥स्थानं च पाशहस्तस्य वरुणस्य महात्मनः । कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति॥२०॥ णानि तत्र मुनेरगस्त्यस्य भक्तिविशेषद्योतनार्थम् । इमे ब्रह्मादयः पूर्वसर्गे फलप्रदत्वेनोक्ताः। अन्ये अगस्त्योपासकत्वेनोक्ताः । एते ब्रह्मानिविष्णुमहेन्द्र विवस्वत्सोमभगकुबेरघातृविधातृवाय्वनन्तगायत्रीवसुवरुणकार्तिकेयधर्माख्याः सप्तदश देवाः । “यो वै सप्तदशम् " इत्यनुवाकोक्तसप्तदशाक्षरदेवताः यायजूकेन मुनिना पूजार्थं प्रतिष्ठिता इति बोध्यम् । अत्र पूज्यदैवतेषु रुद्रस्यानुपादानादपूज्यत्वमुक्तम् । मधुना जनैः कैश्चित् पूज्यमानता तु तामस शास्त्रानुरोधेनेति बोध्यम् । ननु विष्णोः स्थानं महेशस्येति पाठात् स्थानानुक्त्यसम्भव इति चेत्, तदा पूर्व रामेण "अगस्त्यं नियताहारं सततं पर्यु पासते " इत्युक्तावपि स्थाननिर्देशे उपास्योपासकयोरुभयोरपि निर्देशो न विरुध्यते । यदा उपासनं समीपावस्थानं नत्वाराधनम्, धर्ममाराधयिष्णव | दर्शयामास । शिष्यमिति शेषः । मतिबुद्धीत्यादिना द्विकर्मकत्वम् ॥ १२-१४ ॥ तमिति । अगस्त्यवचनं ब्रुवन् अगस्त्येनोक्तं वाक्यं ब्रुवन् ॥ १५ ॥ १६ ॥ अगस्त्या श्रमाधिष्ठितदेवतास्थानान्याह-स तयादिना । तत्र अगस्त्याश्रमे स: श्रीरामः ब्रह्मादिदेवतास्थानानि पश्यतीत्यन्वयः ॥ १७-२०॥
For Private And Personal Use Only