SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir बा.रा.म. ॥ ३४॥ टी.आ.की. स०१२ शरणम् अग्निगृहम् ॥५॥ अन्नसा आशु । यथेष्टमित्यस्य खाचेत्यनेनान्वयः। सम्मतः शिष्येषु मान्यतेन सम्मतः॥६॥ शुश्रूषार्थ सवार्थ चत्यर्थः। अत्र अस्मिन् रामे विषये । अनन्तरं तदागमनानन्तरम् । यद्वक्तव्यं तत्वं तस्य भावं प्रकारम् आज्ञापयितुमर्हसि ॥ ७-९ ॥ दिष्टया यदृच्छया । स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् । कृताञ्जलिरुवाचेदं रामागमनमञ्जसा । यथोक्तं लक्ष्मणेनैव शिष्यो ऽगस्त्यस्य सम्मतः ॥६॥ पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च । प्रविष्टावाश्रमपदं सीतया सह भार्यया ॥७॥ द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिन्दमौ । यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि ॥८॥ ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् । वैदेहींच महाभागामिदं वचनमब्रवीत् ॥९॥ दिष्टया रामश्चिरस्याद्य द्रष्टुं मां समुपागतः। मनसा कांक्षितं ह्यस्य मयाप्यागमनं प्रति ॥१०॥ गम्यता सत्कृतो रामः सभार्यः सहलक्ष्मणः । प्रवेश्या समीपं मे किञ्चासौ न प्रवेशितः॥ ११॥ एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना। अभिवाद्याब्रवीच्छिष्यस्तथेति निय ताञ्जलिः॥१२॥ ततो निष्कम्य सम्भ्रान्तः शिष्यो लक्ष्मणमब्रवीत् । क्वासौ रामो मुनि द्रष्टुमेतु प्रविशतु स्वयम् ॥१३॥ राचिरस्य चिरात् प्रतिकासितमित्यन्वयः। प्रतिर्वीप्सायाम् । सत्कृतः सत्काराईः। किञ्चासौ न प्रवेशितः कुतो विलम्बित इत्यर्थः ॥ १०॥ ११॥ अभि| शालाम् । निवेदितुं निवेदयितुम् ॥ ५॥ अनसा शीघ्रम् ॥६-८॥ तत इति प्रातीतिकार्थः स्पष्टः। वस्तुतस्तु अस्मत्कुलदेवतं सीतालक्ष्मणोपेतः श्रीराम आगत इति शिष्यादुपश्रुत्य स्वयं श्रवणानन्दमनुभूय पश्चादब्रवीदित्यर्थः ॥९॥ रामः दिष्टया देवात् । चिरस्य चिरकालस्य । अद्य द्रष्टुं मां प्रति समुपागतः । हि यस्मात । अस्य रामस्यागमनं मयापि मनसा कासितमिति योजना । वस्तुतस्तु मयाप्यन्तरङ्गभूतया लक्ष्म्यापि यस्य अस्य विष्णोः " अकारो ब्रह्मविष्ण्वीशेषु" इति | निघण्टुः। आगमनं ज्ञानम् "सर्वे गत्यर्या ज्ञानार्थाः" इति वचनात् । मनसा काद्वितं हि मनसा कॉक्षितं खलु " दृश्यते त्वम्यया बुद्धचा सूक्ष्मया सूक्ष्मदर्शिभिः" इति श्रुतेः । स एव सर्वलोकैकशरण्यः श्रीरामः भीषणामयपीडितस्य भिषगिव चिरस्थ चिरकालस्याद्य द्रष्टुं मां प्रति मामुद्दिश्य दिष्टचा मद्भाग्यवशेन समुपागतः मम पुरत आविर्भूत इत्यहो मम भाग्यं किं वर्णनीयमित्यर्थः । एतदात्मगतम् ॥ १०॥ ११ ॥ एवमिति । तथेति आनयिष्यामीत्यब्रवीदित्यर्थः । लक्ष्मणः काकुस् स०-चिरस्प बहुकालक्षेप करवा । चिरस्यति । भा क्षेपणे ण्यत् । संज्ञापूर्वकत्वावधभावः । शकन्यादित्वात् पररूपम् । " चिरस्थायाश्चिरार्थकाः " इत्यमरः ॥१०॥ टीका-किशासौ न प्रवेशित इत्यत्र किमर्थ न प्रवेशित इत्यर्थः ॥ ११॥ ॥ ३४॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy