________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बिग्धपत्राः आश्रमवासिभिः रक्षितत्वेन सरसपत्राः । क्षान्ताः शान्ताः। यथा येन प्रकारेण तथा तेन प्रकारेण । आश्रमो नातिदूरस्थ इति मन्ये । ८०111 स्वेन कर्मणा विन्ध्यस्तम्भनरूपेण। अगस्त्य इति विख्यातः अगं स्तम्भयतीत्यगस्त्य इति व्युत्पत्तेः । परिश्रान्तानां श्रममपहन्तीति परिश्रान्तश्रमापदः ।
पुष्पितान पुष्पिताग्राभिर्लताभिरनुवेष्टितान् । ददर्श रामः शतशस्तत्र कान्तारपादपान ॥७७ ॥ हस्तिहस्तर्विमृ दितान्वानरैरुपशोभितान् । मत्तैः शकुनिसबैश्च शतशश्च प्रणादितान् ॥७८॥ ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः। पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् ॥ ७९ ॥ स्निग्धपत्वा यथा वृक्षा यथा शान्ता मृग द्विजाः। आश्रमो नातिदूरस्थो महावितात्मनः॥८०॥ अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा । आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः ॥८१॥ प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः । प्रशान्तमृगयूथश्च नानाशकुनिनादितः॥८२॥ निगृह्य तरसा मृत्युं लोकानां हितकाम्यया । दक्षिणा दिकृता येन शरण्या पुण्य कर्मणा। तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः। दिगियं दक्षिणा त्रासादृश्यते नोपभुज्यते ॥८३॥ यदाप्रभृति
चाक्रान्ता दिगियं पुण्यकर्मणा। तदाप्रभृति निराः प्रशान्ता रजनीचराः॥८॥ प्राज्यैर्बहुभिधूमैराकुलं वनं यस्य सः ॥८१ ॥ ८२॥ त्रासात् दृश्यते न तु प्राचीनकाल इवोपभुज्यते ॥ ८३ ॥ यदाप्रभृतीति अगस्त्यागमनात्प्रभृति।। शान्ता मृगद्विजाः इति पाठः । यथा स्निग्धपत्रा वृक्षाः यथा मृगद्विजाः शान्ताः अतः आश्रमो नातिदूरस्थ इति सम्बन्धः ॥८॥ अगं विन्ध्यपर्वतं स्पति स्तम्भ यतीत्यगस्त्यः । स्यतेः स्त्यादेशः । स्वेन कर्मणा स्तम्भनरूपकर्मणा परिश्रान्तानां श्रमापहः । आज्योति प्राज्येति पाठद्वयम् ॥ ८१॥ ८ ॥ तस्येदमाश्रमपदमिति पूर्वेण योज्यम् । प्रभावादिति अस्य प्रभावाद्राक्षसेन दृश्यते अस्य त्रासात नोपभुज्यते स्वदेशत्वेन परिगृह्य नानुभूयत इत्यर्थः ॥ ८३॥ यदेति । निर्वैराः प्राणि ततः प्रन्यथितो दैत्यो ददावभ्यधिक वसु । विवाजाय सुवाजाश्च तस्मिन्युक्तौ रपे हयौ । ऊहतुः स्म वसूनाशु तानगल्याश्रमं प्रति । सर्वान्नानस्सहागल्यानिमेषादिव भारत " इत्यन्तेन प्रवर्षणारम्भस्येल्वलकृतस्य
नागस्त्येन तद्धननस्य चानुक्तावरोध इति चेत्, सत्यम् कल्पमेदेन समाधिसम्भवात् । यद्वा अनलकल्पेन खेन चक्षुषा दग्ध इव सन्निल्वलस्तं मुनिमम्यद्रवत् । अनन्तरं तेन दीप्तेन तेजसा मुनिनागस्त्येन निघन | INमारतरीत्या धनाभावरूपं निधनं गत इति अबैंककण्ठ नेयम् ॥ १८ ॥
For Private And Personal Use Only