________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
स्थलीप्राये स्थलीप्रचुरे ॥ ४० ॥ कारण्डवाः सारसाः ॥ ४१ ॥ तत्रागस्त्यश्रात्राश्रमे रजनीं व्युष्य रात्रिमतिवाह्य । वनषण्डस्य वनसमूहस्य पार्श्वतः दक्षिणां दिशम् । आस्थाय उद्दिश्य निर्वणदेशे योजनमन्तरं योजनावकाशं गत्वा अगस्त्याश्रमपदं गम्यतामित्यन्वयः ॥ ४२-४५ ॥ इति एवंप्रकारेण मुनेः सकाशाच्छ्रुत्वा ॥ ४६ ॥ अनसन्निभान् मेघसन्निभान् । मार्गवशानुगाः मार्गवशेनानुगम्यमानाः । राम इति पूर्वश्लोकादनुकृष्यते ॥ ४७ ॥ ४८ ॥ स्थलीप्राये वनोद्देशे पिप्पलीवनशोभिते । बहुपुष्पफले रम्ये नानाशकुनिनादिते ॥ ४० ॥ पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाः शिवाः । हंसकारण्डवा कीर्णाश्चक्रवाकोपशोभिताः ॥ ४१ ॥ तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम् । दक्षिणां दिशमास्थाय वनषण्डस्य पार्श्वतः ॥ ४२ ॥ तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम् । रमणीये वनोद्देशे बहुपादपसम्वृते ॥ ४३ ॥ रंस्यते तत्र वैदेही लक्ष्मणश्च सह त्वया । स हि रम्यो वनोद्देशो बहु पादपसङ्कुलः ॥४४॥ यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् । अद्यैव गमने बुद्धिं रोचयस्व महायशः ॥ ४५ ॥ इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च । प्रतस्थेऽगस्त्यमुद्दिश्य सानुजः सीतया सह ॥ ४६ ॥ पश्यन् वनानि रम्याणि पर्वतांश्चाभ्रसन्निभान् । सरांसि सरितश्चैव पथि मार्गवशानुगाः ॥४७॥ सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् । इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत् ॥ ४८ ॥ एतदेवाश्रमपदं नूनं तस्य महात्मनः । अगस्त्यस्य मुनेर्भ्रातु दृश्यते पुण्यकर्मणः ॥४९॥ यथाहि मे वनस्यास्य ज्ञाताः पथि सहस्रशः । सन्नताः फलभारेण पुष्पभारेण च द्रुमाः ॥ ५० नूनमिति वितर्के । यदाश्रमपदं दृश्यते एतन्मुनेर्नूनमित्यन्वयः ॥ ४९ ॥ उक्तेऽर्थे हेतुमाह-यथाहीति । यथाहि मे पथि चिह्नतया वनं श्रुतं तथैवास्य स्थलीप्राये वनोद्देशे । पिप्पलीवनशोभित इतेि मार्गचिह्न प्रदर्शनार्थमुक्तम् । स्थलप्राये स्थलं प्रायः प्रायेण यस्मिन् तथा ॥ ४० ॥ पद्मिन्यः सरस्यः ॥ ४१ ॥ दक्षिणा मिति । योजनमन्तरं गत्वा तत्रागस्त्याश्रमपदं द्रक्ष्यसीति शेषः ।। ४२-४५ ॥ मुनेः श्रुत्वा वचनमिति शेषः ॥४६-४८॥ आश्रमपदं दृश्यते खलु एतदेव अगस्त्यस्य भ्रातुराश्रमपदं नूनमिति सम्बन्धः ॥ ४९ ॥ कुत इत्याकाङ्गायां सुतीक्ष्णोक्तमार्गचिह्नानि प्रदर्शयति-यथा हीति । अस्य अगस्त्यस्य भ्रातुः वनस्य सम्बन्धिनो द्रुमा स० [स्थलीप्राये अकृत्रिमस्थलबहुले । “ जानपद--" इत्यादिना ङीष ॥ टी०-पिप्पलीनां पिप्पलीलतानां वनं तेन शोभिते ॥ ४० ॥
९५
For Private And Personal Use Only