________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
वा.रा.भू.
टी.आ.कां. ०११
॥३०॥
परिवृत्य एवमाश्रमं सर्व परिक्रम्य ॥२९-३१॥ कथाः नानाकथाः। कथयतां कथयत्सु ॥ ३२ ॥ तत्र बने । अगस्त्यमभिवादयितुमाभिगच्छेयामित्य न्वयः॥ ३३ ॥३४॥ तं मुनिवरं शुश्रूषेयमिति यत् एप मनोरथः अभिलाषो मे हदि परिवर्तत इत्यन्वयः । शुषेयमिति परस्मैपदमार्पम् ॥३५॥३६॥
परिवृत्य च धर्मज्ञो राघवः सह सीतया। सुतीक्ष्णस्याश्रमं श्रीमान् पुनरेवाजगाम ह ॥ २९ ॥ स तमाश्रम मासाद्य मुनिभिः प्रतिपूजितः। तत्रापि न्यवसद्रामः किञ्चित्कालमरिन्दमः ॥ ३० ॥ अथाश्रमस्थो विनयात् कदाचित्तं महामुनिम् । उपासीनः स काकुत्स्थःसुतीक्ष्णमिदमब्रवीत् ॥३१॥ अस्मिन्नरण्ये भगवन्नगस्त्यो मुनि सत्तमः । वसतीति मया नित्यं कथाः कथयतां श्रुतम् ॥ ३२॥ नतु जानामि ते देशं वनस्यास्य महत्तया । कुत्राश्रममिदं पुण्यं महर्षेस्तस्य धीमतः॥ ३३ ॥ प्रसादात्तत्रभवतः सानुजः सह सीतया । अगस्त्यमभिगच्छेय मभिवादयितुं मुनिम् ॥३४॥ मनोरथो महानेष हदि मे परिवर्तते । यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम् ॥३५॥ इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः । सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् ॥ ३६ ॥ अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम् । अगस्त्यमभिगच्छेति सीतया सह राघव ॥ ३७॥ दिष्टया त्विदानीमर्थेस्मिन् स्वयमेव ब्रवीषि माम् । अहमाख्यामि ते वत्स यत्रागस्त्यो महामुनिः ॥ ३८ ॥ योजनान्यश्रमादस्मात्तथा
चत्वारि वै ततः । दक्षिणेन महाञ्छ्रीमानगस्त्यभ्रातुराश्रमः ॥ ३९ ॥ अहमिति । अगस्त्यमभिगच्छेत्येतदक्तुकामोस्मीत्यन्वयः॥ ३७॥३८॥ अस्मादाश्रमादक्षिणेन तथेति हस्तेन निर्देशः। चत्वारि योजनानि अभि| याहीति शेषः । ततस्तत्र अगस्त्यभ्रातुराश्रमो वर्तते । आश्रमाद्दक्षिणेनेत्यत्र" एनपा द्वितीया " इति द्वितीयाभाव आपः॥३९॥ परिवृत्त्य सर्वमुन्याश्रमान ॥२९॥३०॥ उपासीनः उपसमीपे आसीनः ॥३१॥ कथयता सकाशादिति शेषः ॥३२-३४॥ तं मुनिवरं स्वयमपि स्वयं शुश्रूषेयमिति यत् | एष मनोरथः हदिसंपरिवर्तत इति सम्बन्धः ॥३५-३८॥ योजनानीति । अस्मादाश्रमाइक्षिणेन चत्वारि योजनानि याहि ततःपरं अगस्त्यचातुराश्रमोऽस्ति ॥ ३९ ॥
स०-अगस्त्यभ्रातुः इत्मवाहस्य । “ अगस्थः प्राग्दुहितरमुपयेमे दृढवताम् । यस्यां दृद्धप्युतो जात इप्मवाहात्मजो मुनिः ॥” इति भागवते ज्येष्ठत्वादहितृसमायामिष्मवाहमार्यायां देवरा मुतोत्पत्ति न्यायेन दृढभ्युतमपत्यमगत्यो लेम इति भावः ॥ ३९ ॥
For Private And Personal Use Only