SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir दशान् परिगताः दश येषां ते परिदशाः। “सङ्घययाव्यय-" इत्यादिना बहुव्रीहिसमासः। “बहुव्रीहौ सङ्खयेये डजबहुगणात्" इति डच समासान्तः तान् मासान् त्रयोदशमासानित्यर्थः । अत्यन्तसंयोगे द्वितीया । सुखं यथा भवति तथा न्यवसत् । क्वचिदाश्रमे एकं संवत्सरं सुखं न्यवसत् । क्वचिदाश्रमे । चतुरो मासान् सुखं न्यवसत् । क्वचित् पञ्च मासान् क्वचित् पण्मासान् कचिदपरान् पड्भ्योन्यान् सप्त मासान् सुखं न्यवसत् । पञ्च षट् च तथा क्वचि दिति पाठे-तथा पुनः क्वचित् षण्मासानित्यर्थः। परिदशानित्यत्र चतुर्दशमासानित्यर्थः । अपरवाश्रमे मासादपिकं सुखं न्यवसत् । अधिकशब्देनात्र अपरत्राधिक मासादप्यर्धमधिकं क्वचित् । त्रीन् मासानष्टमासांश्च राघवो न्यवसत् सुखम् ॥२७॥ तथा सम्वसतस्तस्य मुनीनामाश्रमेषु नै रमतश्चाडकूल्येन ययुः सम्वत्सरा दश ॥२८॥ मासचतुर्थाशो विवक्षितः, एकमासं मासपादं चेत्यर्थः । अपराधिक मासमिति पाठे-मासम् अधिकं तत्पादं चेत्यर्थः। अपिशब्दः सर्वत्र मासानुकर्ष णार्थः । क्वचिदाश्रमे अर्धमधिकं च न्यवसत् पादोनमासमित्यर्थः। तथा चैतदव्यवहितपूर्वाश्रमवासदिनों मासौ संवृत्तौ। एकत्र सपादमासः अपरत्र पादोनमास इत्याहत्य मासद्वयसम्भवात् । अध्यर्धमधिकं क्वचिदिति पाठे-अध्यर्धम् अर्धाधिकम् अर्धमासाधिकमित्यर्थः । अधिकं पूर्वोक्तपादमासात्म काधिकं तथा च त्रिपादमासमित्यर्थः । क्वचित् त्रीन् मासान् न्यवसत् । क्वचिदृष्टमासान न्यवसत् । एवं पष्टिमासाः सिद्धाः। केचिदाहुः-परिदशान् दशाधिकानिति वक्ष्यमाणेष्वष्टसु स्थानेष्वन्वेति । तथाचायमर्थः--एवं संवत्सरं वचिदित्यत्र द्वाविंशतिमासानित्यर्थः। क्वचिच्च चतुरो मासानित्यत्र चतुर्दश मासानित्यर्थः । पञ्च पद चापरान् क्वचिदित्यत्र कचित् पञ्चदश मासान् कचित् षोडशमासानित्यर्थः। अपरानधिक मासादप्यमधिकं| कचिदित्यत्र प्रथमाधिकशब्दोऽर्धमासरूपाधिकांशपरः। तथा च अपरान् परिदशान मासान् अधिकं चेत्यन्वये अर्धाधिकदशमासानित्यर्थः । मासाद प्यमित्यादेरयमर्थः क्वचित्परिदशान् मासान् तदुपरिमासादधिकमर्थमपि चेति तथा च अर्धाधिकैकादशमासानित्यर्थः । त्रीन् मासान् अष्टमासां Mश्चत्यत्र त्रयोदश मासान् अष्टादश मासांश्चेत्यर्थः । तथाच विंशत्युत्तरशतमासा लब्धा इति । तस्मिन् पक्षे प्राथमिकक्वचित्पदमासपदानर्थक्यं पूर्वग्रन्थ विरोध इत्यादि द्रष्टव्यम् ॥ २६ ॥२७॥ तथाचाश्रममण्डले दश संवत्सराः संवृत्ता इत्याह-तथा संवसत इति । इयमेवाश्रमवाससंख्या । पूर्वापर संख्या तु किष्किन्धाकाण्डे वक्ष्यते ॥२८॥ टी कचिदिति परिदशान् परिगता दशा परिदशाः तान् दशसंख्याकान्मासानित्यर्थः । यद्वा दशसमीपान एकादश नव वेत्यर्थः ॥ २६ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy