SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir टी.कि.कां. मणिजलावृतानि रत्नमयजालकानि । जालकगवाक्षयोंमेंद उक्तः ॥६॥७॥ आत्मानं त्वाम् । अनुभावं प्रभावम् । कस्य चैतत्तपोबलं तच्चेत्यर्थः 11८॥९॥ मयो नाम त्रिपुराधिपतिः त्रिपुरे नष्टे स्वरक्षणार्थमिदं बिलं कृतवानिति मात्स्यपुराणे त्रिपुरदहनप्रस्तावेऽभिहितम् । मायया विचित्र तपनीयगवाक्षाणि मणिजालावृतानि च । पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धिनः ॥६॥ इमे जाम्बूनदमयाः पादपाः कस्य तेजसा । काञ्चनानि च पद्मानिजातानि विमले जले॥७॥ कथं मत्स्याश्च सौवर्णाश्चरन्ति सह कच्छपैः। आत्मानमनुभावं च कस्य चैतत्तपोबलम् ॥ ८॥ अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि । एवमुक्ता हनुमता तापसी धर्मचारिणी। प्रत्युवाच हनूमन्तं सर्वभूतहिते रता॥९॥मयो नाम महातेजा मायावी दानवर्षभः। तेनेदं निर्मितं सर्वमायया काञ्चनं वनम् ॥१०॥पुरा दानवमुख्यानां विश्वकर्मा बभूव ह । येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् ॥ ११॥ स तु वर्षसहस्राणि तपस्तप्त्वा महावने । पितामहादरं लेभे सर्वमौशनर्स धनम् ॥ १२ ॥ वनं विधाय बलवान् सर्वकामेश्वरस्तदा । उवास सुखितः कालं कंचिदस्मिन् महावने ॥ १३ ॥ तमप्सरसि हेमायां सक्तं दानवपुङ्गवम् । विक्रम्यैवाशनिं गृह्य जघानेशः पुरन्दरः॥१४॥ इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम् । शाश्वताः कामभोगाश्च गृहं चेदं हिरण्मयम् ॥ १५॥ शक्त्या । मायावी मायायुक्तः। दानवर्षभ इत्यनेन नायमसुरतक्षा मय इति सूचितम् ॥१०-१३॥ तं स्वपुत्री मन्दोदरीं रावणाय दत्तवन्तम् । एकान्ते हेमायां सक्तं विदित्वा । ईशः त्रैलोक्याधिपतिः अशनि वज्रं गृहीत्वा जघान ॥ १४ ॥ रामानु०-गृह्य गृहीत्वा ॥ १४ ॥ इदं चेति-मयनाशानन्तरम् इदं वनं । कथं मत्स्याश्चेति । आत्मनस्त्वनुभावात, तवानुभावादित्यर्थः ॥ ८॥९॥ मयो नामेति । मायया विचित्रशक्त्या ॥ १० ॥११॥ औशनसं धनं विचित्र निर्माण प्रतिपादकशिल्पशास्त्रज्ञानम्, शिल्पस्योशनसा प्रणीतत्वात्तद्धनत्वव्यपदेशः ॥ १२॥ वनमिति । विधाय सर्व धनं काधनं कृत्वा ॥ १३ ॥ १४ ॥ इदमिति स-महत वने इति छेदः । महावन इति पाठे बनविशेषणम् । महतो वनमिति वा । अथवा आदित्यादित एवं निर्देशादनित्यताऽऽत्वस्य शापितेति । " तस्यैव महासुखत्वात्तेषाम् " इत्यादिवदाचाभावे ऐकप शेयम् ॥ १२॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy