________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रामानु०-तौ दृष्ट्वा भृशसंत्रस्ता इति पाठः ॥ ३९ ॥ यवातिष्ठन्त दूरे स्थिता इत्यर्थः ॥ ४० ॥ रामानु० - विस्मिता हरयस्तत्र व्यवातिष्ठन्त सर्वशः इत्यतः परम् - पमच्छ हनुमांस्तत्र कासि त्वं कस्य वा विलमित्यर्थं केषुचित् कोशेषु दृश्यते । तेन विनापि कथासंगतरविरोधः ॥ ४० ॥ पप्रच्छेत्यर्धस्य विवरणम्-ततो हनुमानिति । अस्मिन् सर्गे साधें कचत्वारिंशच्छ्लोकाः ॥ ४१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्तादाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चाशः सर्गः ॥ ५० तां दृष्ट्वा भृशसंत्रस्ताचीरकृष्णाजिनाम्बराम् । तापसीं नियताहारां ज्वलन्तीमिव तेजसा ॥ ३९ ॥ विस्मिता हरयस्तत्र व्यवातिष्ठन्त सर्वशः । पप्रच्छ हनुमांस्तत्र काऽसि त्वं कस्य वा बिलम् ॥ ४० ॥ ततो हनूमान् गिरिसन्निकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम् । पप्रच्छ का त्वं भवनं बिलं च रत्नानि हेमानि वदस्व कस्य ॥ ४१ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥ ५० ॥
इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम् । अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् ॥ १ ॥ इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् । क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ॥ २ ॥ महद्धरण्या विवरं प्रविष्टाः स्म पिपासिताः । इमांस्त्वेवंविधान् भावान् विविधानद्भुतोपमान् ॥ ३ ॥ दृष्ट्वा वयं प्रव्यथिताः संभ्रान्ता नष्टचेतसः । कस्यैते काञ्चना वृक्षास्तरुणादित्यसन्निभाः ॥ ४ ॥ शुचीन्यभ्यवहार्याणि मूलानि च फलानि च । काञ्चनानि विमानानि राजतानि गृहाणि च ॥ ५ ॥
अथ स्वयंप्रभया ऋक्षविलवृत्तान्तोक्तिरेकपञ्चाशे- इत्युक्त्वेत्यादि ॥ १॥ परिखिन्नाः अध्वश्रमखिन्नाः॥२॥ क्षुत्पिपासापरिश्रान्तत्वेपि पिपासैव प्रवेशहेतु रित्याशयेनोक्तम् पिपासिता इति । भावान् पदार्थान् ॥ ३ ॥ प्रव्यथिताः किमिदमसुरादिमायेति संजातव्यथाः । नष्टचेतसः कर्तव्यबुद्धिरहिताः ॥४॥५॥ तामिति । संत्रस्ताः तदीयातिरिक्ततेजोदर्शनेनेति भावः॥ ३९ ॥४०॥ तत इति । वदस्व वद ॥४१॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतस्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां पञ्चाशस्सर्गः ॥ ५० ॥ १ ॥ २ ॥ भावान् पदार्थान ॥ ३ ॥ वयं प्रव्यथिताः अलौकिकवस्तुसन्दर्शनजनितभयेनेति भावः ॥ ४-७
स०-वदस्व वद " भासनो सम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः " इत्युक्तेरात्मनेपदता प्रकाशमाना सती वदेत्यर्थः ॥ ४१ ॥
For Private And Personal Use Only