________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
म० ५०
४१३६॥
ब.रा.भू. ऋक्षविलं नाम ऋबिलमिति प्रसिद्धम् । महाविलं ददृशुरिति पुनरुक्तिर्गुणान्तरविधानाय ||८|| निष्क्रमन् निरक्रमन् ॥ ९ ॥ दुरतिक्रमं दुष्प्रवेशम् (डी.कि.कां. ||१०|| सञ्जातपरिशङ्काः किमिदं पातालम् उतान्यन्मायामयमिति सन्दिहानाः । असंहृष्टाः सन्तः अभ्यपद्यन्नभ्यपद्यन्त । नानेति श्लोको विलविशे ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन् । जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः ॥ ९ ॥ ततस्तद्विल मासाद्य सुगन्धि दुरतिक्रमम् । विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः ॥ १० ॥ सञ्जत परिशङ्कास्ते तद्विलं प्लवगोत्तमाः । अभ्यपद्यन्न संहृष्टास्तेजोवन्तो महाबलाः ॥ ११ ॥ नानासत्त्वसमाकीर्ण दैत्येन्द्रनिलयोपमम् । दुर्दर्शमतिघोरं च दुर्विगाहं च सर्वशः ॥ १२ ॥ ततः पर्वतकूटाभो हनुमान् पवनात्मजः । अब्रवीद्वानरान सर्वान् कान्तारवनकोविदः ॥ १३ ॥ गिरिजालावृतान् देशान्मार्गित्वा दक्षिणां दिशम् । वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम् ॥ १४ ॥ अस्माच्चापि बिलाद्धंसाः क्रौञ्श्चाश्च सह सारसैः । जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वतः ॥ १५ ॥ नूनं सलिलवानत्र कूपो वा यदि वा हृदः । तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः ॥ १६ ॥ इत्युक्त्वा तद्विलं सर्वे विविशुस्तिमिरावृतम् । अचन्द्रसूर्य हरयो ददृशू रोमहर्षणम् ॥ १७ ॥ निशाम्य तस्मात्सिंहश्चि तांस्तांश्च मृगपक्षिणः । प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम् ॥ १८ ॥
पणम् ॥ ११ ॥ १२ ॥ कान्तारे दुर्गमार्गे वने कोविदः समर्थः ॥ ३३ ॥ रामानु० - ततः पर्वतकूटाभो हनुमान् पवनात्मज इति पाठ: ॥ १३ ॥ गिरिजालावृतान देशान् दक्षिणां दिशम्, तादृशदेशरूपां दक्षिणां दिशमित्यर्थः ॥ १४ ॥ १५ ॥ नूनमिति । अस्तीति शेषः ॥ १६ ॥ इत्युक्त्वेति । हनुमदुक्तप्रकारेण सर्वे प्युक्त्वा विविशुः । तिमिरावृतं ददृशुश्च । अचन्द्रसूर्य चन्द्रसूर्यकिरणरहितम्॥ १७॥ तस्मान्निर्गच्छतः सिंहान् तांस्तान् नानाप्रकारान् मृगपक्षिणश्च ॥ १८ ॥ दानवेन मयेन बिलस्य विशिष्टतां द्योतयितुं ददृशुरिति पुनरभिधानम् ॥ ८-१० ॥ सञ्जातपरिशङ्का इत्यादि श्लोकयमेकं वाक्यम् । सञ्जातपरिशङ्काः इदमेव रावणस्थानमिति सञ्जाता परिशङ्का ऊहा येषां ते तथोक्ताः ॥ ११ ॥ १२ ॥ कान्तारवनकोविदः कान्तारे दुर्गमार्गे बने च कोविदः ॥ १३ ॥ दक्षिणां दिशं दक्षि णस्यां दिशीत्यर्थः ॥ १४-१६ ॥ इत्युक्त इति पाठे इत्युक्ते सति सर्वे हरयः तद्विलं विविशुः ॥ १७ ॥ हरिशार्दूलाः तस्मात् बिलात निर्गच्छतः सिंहादीन निशाम्य
For Private And Personal Use Only
।। १३६ ।।