________________
Shri Maharan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandie
वर्तते अयत्नपूर्व प्रवर्तत इत्यर्थः ॥ १९॥ रामानु-तेजः प्रभावः । “तेजः प्रभावे दीप्तौ च " इति विश्वः ॥ १९ ॥ प्रकाशं निस्तमस्कम् ॥२०॥ संग्रहेणोक्तं प्रपञ्चयति-ततस्तस्मिन्नित्यादि । अन्योन्यं सम्परिष्वज्य हस्तावलम्बनं कृत्वा॥२१॥परिपेतुःजग्मुः। कंचित्कालमित्यत्यन्तसंयोगे द्वितीया॥२२॥आलोकं
न तेषां सज्जते चक्षुर्न तेजो न पराक्रमः । वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते ॥ १९ ॥ ते प्रविष्टास्तु वेगेन तद्विलं कपिकुञ्जराः । प्रकाशमभिरामं च ददृशुर्देशमुत्तमम् ॥ २०॥ ततस्तस्मिन बिले दुर्गे नानापादपसङ्कले । अन्योन्यं संपरिष्वज्य जग्मुर्योजनमन्तरम् ॥ २१॥ ते नष्टसंज्ञास्तृषिताः संभ्रान्ताः सलिलार्थिनः । परिपेतुर्बिले तस्मिन् कञ्चित्कालमतन्द्रिताः ॥ २२ ॥ ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः। आलोकं ददृशुर्वीरा निराशा जीविते तदा ॥२३ ॥ ततस्तं देशमागम्य सौम्यं वितिमिरं वनम् । ददृशुः काञ्चनान वृक्षान् दीप्तवैश्वानर प्रभान् ॥ २४॥ सालास्तालाश्च पुन्नागान ककुभान वञ्जुलान् धवान् । चम्पकान नागवृक्षांश्च कर्णिकारांश्च पुष्पितान ॥ २५ ॥ स्तबकैः काञ्चनैश्चित्रै रक्तः किसलयैस्तथा । आपीडैश्च लताभिश्च हेमाभरणभूषितान् ॥२६॥ तरुणा दित्यसङ्काशान् वैडूर्यकृतवेदिकान् ।विभ्राजमानान् वपुषा पादपांश्च हिरण्मयान् ॥ २७ ॥ प्रकाशम् ॥२३-२५ ॥ आपीडैः शेखरैः लताभिश्च, उपशोभितानिति शेषः । हेमाभरणभूषितान् फलितहेमाभरणान् । पादपांश्च हिरण्मयान् । रजतमयांश्च वृक्षान् ॥ २६ ॥२७॥ दृष्ट्वा तद्विलं प्रविष्टा इति योजना ॥१८॥ कथमन्धकारावृतबिलप्रवेश इत्यत्राह-न तेषामिति । तेजः प्रभावः, तेजआदि तद्विलस्थतमसि न प्रवर्तत इत्यर्थः ॥१९॥ त इति । प्रकाश तिमिररहितं देशं दूरादहशुरित्यर्थः ॥ ३० ॥ एवं सहेणोक्त्वा सप्रपञ्चमाह-ततस्तस्मिन्नित्यादिना । अन्योन्य सम्परिप्वज्य अन्योन्यं हस्ता वलम्बनं कृत्वा ॥ २१॥ २२॥ आलोकं प्रकाशवन्तं देशम् । “ आलोको दर्शनोद्योतो" इत्यमरः ॥ २३-२५ ॥ स्तबकैरिति श्लोकद्वयमेकं वाक्यम् । आपीडैः शेखरैः । हेमाभरणभूषितान फलितहेमाभरणान् । हिरण्मयान् रजतमयान स्तबकादिभिश्च युतान् पादपान दहशुरिति पूर्वेण सम्बन्धः ॥ २६ ॥ २७ ॥
For Private And Personal Use Only