________________
San Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Slvi Kalassagarsur Gyarmandir
॥२२॥
स०
44444
अस्य ऋश्यमूकस्य गुहां सीताभरणस्थानभूताम् ॥२५॥ इति श्रीगोविन्द श्रीरामा० मुक्ता किष्किन्धाकाण्डव्याख्याने षट्चत्वारिंशः सर्गः॥४६॥ टी.कि.का. अथ दक्षिणेतरदिग्गतवानरागमनं सप्तचत्वारिंशे-दर्शनार्थ वित्यादि । यथोक्तं देशम् ॥ १॥ तदेव विवृणोति-सरांसीत्यादिना । कक्षान् गुल्मान् । एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम् । पृथिवीमण्डलं कृत्स्नं गुहामस्यागतस्ततः ॥२५॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः ॥४६॥
दर्शनार्थ तु वैदेह्याः सर्वतः कपियूथपाः । व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा ॥३॥ सरांसि सरितः कक्षा नाकाशं नगराणि च । नदीदुर्गास्तथा शैलान विचिन्वन्ति समन्ततः ॥२॥ सुग्रीवेण समाख्याताः सर्वे वानर यूथपाः। प्रदेशान प्रविचिन्वन्ति सशैलवनकाननान्॥३॥विचित्य दिवसं सर्वे सीताधिगमने धृताः। समायान्ति स्म मेदिन्यां निशाकालेषु वानराः॥४॥ सर्वर्तुकामान् देशेषु वानराः सफलान द्रुमान् । आसाद्य रजनी शय्यां चक्रुः सर्वे प्वहस्सु ते ॥५॥ तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः । कपिराजेन संगम्य निराशाः कपियूथपाः॥६॥ लतागृहानित्यर्थः । आकाशं वृक्षगुल्मादिरहितप्रदेशम् । नदीदुर्गान् नदीभिर्दुर्गमान् ॥२॥३॥ विचित्येति । धृताः तत्पराः॥१॥ विचित्येति श्लोकोक्तं , विवृणोति-सर्वेति । सर्वर्तुकामान् काम्यन्त इति कामाः पुष्पफलादयः, सर्वर्तुसम्भवफलपुष्पादियुक्तानित्यर्थः । सफलान् वानरैरुपभुज्यमानत्वेन सफलान् । दुमानासाद्य । सर्वेष्वहस्सु एकमासान्तर्गतसर्वदिनेषु । रजनी रजन्यामेव । शय्यां चक्रुः । अनेनाहारविश्रमादिकमहस्सु नास्तीत्यवगम्यते ॥५॥ तदहः प्रस्थानदिनं प्रथमं कृत्वा तदारभ्य मासे पूणे सति । निराशाः सीतान्वेषणे निरुत्साहाः सन्तः । कपिराजेन सङ्गम्य तस्मै स्वागमनं एवमिति । गुहाँ मतङ्गाश्रमस्थऋश्यमूकगृहां सीताभरणनिक्षेपस्थानभूताम् ॥ २५ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायां चट्चत्वारिंशः सर्गः ॥४६॥ अथ प्रस्थिताना वानराणां वृत्तान्तमाह-दर्शनार्थमिति ॥ १ ॥ स सरांसि सरित्कुक्षान इति पाठः। सरित्कुक्षान् नदीकुन्नान । नदीदुर्गान् नदीभिर्दुर्गमान् प्रदेशान् ॥ २॥ ३ ॥ धृता नियुक्ताः ॥ ४ ॥ ते वानराः सर्वेष्वहस्तु दिवसेषु सीता विचित्य सर्वर्तुकामान् सार्व
H ॥१३२ कालिकपुष्पफलयुक्तान सफलान तत्तत्कालीनफलयुक्तांच दुमानासाद्य फलादिभक्षणार्थ रजनी रजन्यो शय्यो चक्रुरिति योजना । अनेन आहारविश्रमादिकम अहस्तु नास्तीत्यवगम्यते ॥ ५॥ तदह इति । प्रस्थानविशिष्टमहः । निराशा, अभवन्निति शेषः ॥ टीका-दानी तेषां प्रतिप्रयागमाह- तदह इति । सङ्गम्य कपिराजेन, न्यादिष्ट
For Private And Personal Use Only