SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir दुमादिकमपश्यमिति पूर्वेणान्वयः ॥ १५ ॥ १६ ॥ रामानु० - उदयमित्याद्यर्धत्रयमेकं वाक्यम् । एतदनन्तरम् पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो । पुनरावर्तमानस्तु बालिनाभिद्रुतो द्रुतामिति पाठः ॥ १५ ॥ १६ ॥ पुनरित्यादि लोकद्वयमेकान्वयम् । अस्याः पूर्वस्याः दिशः पुनरावृत्य प्रस्थितोऽस्मि । आवर्तमानोऽहं वर्तमानस्तु वालिनाभिद्रुतो द्रुतम् । दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम् ॥ १७ ॥ विन्ध्यपादप सङ्कीर्णी चन्दनभूषिताम् । द्रुमशैलांस्ततः पश्यन् भूयो दक्षिणतोऽपरान् ॥ १८॥ पश्चिम तु दिशं प्राप्तो वालिना समभिद्रुतः । संपश्यन् विविधान् देशानस्तं च गिरिसत्तमम् । प्राप्य चास्तं गिरिश्रेष्ठमुत्तरां संप्रधावितः ॥ १९ ॥ हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम् ॥ २० ॥ यदा न विन्दं शरणं वालिना समभिद्रुतः । तदा मां बुद्धिसंपन्नो हनुमान वाक्यमब्रवीत् ॥ २१ ॥ इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः । मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रम मण्डले ॥ २२ ॥ प्रविशेद्यदि वै वाली मूर्धाऽस्य शतधा भवेत् । तत्र वासः सुखोऽस्माकं निरुद्विग्ग्रो भविष्यति ॥२३॥ ततः पर्वतमासाद्य ऋश्य मूकं नृपात्मज । न विवेश तदा वाली मतङ्गस्य भयात्तदा ॥ २४ ॥ पुनर्वालिनाभिद्रुतोस्मि । विन्ध्यपादपेत्यनेन किष्किन्धाया दक्षिणतोपि विन्ध्यपर्वतशेषोऽस्तीति गम्यते ॥ १७-१९ ॥ हिमवन्तमिति । अपश्यमिति शेषः ॥ २० ॥ शरणं रक्षणम् । न विन्दं नाविन्दम् ॥ २१ ॥ इदानीमित्यादि । राजन् ! अस्मिन्नाश्रममण्डले वाली प्रविशेद्यदि तदाऽस्य मूर्धा शतधा भवेदिति मतङ्गेन पुरा हरीश्वरो यथाभिशप्तः तथा इदानीं मे स्मृतमिति योजना । निरुद्विनः निर्भयः । भावे निष्ठा । इति हनुमान् वाक्य मब्रवीदिति सम्बन्धः ॥ २२ ॥ २३ ॥ आसाद्य, स्थितोड़मिति शेषः ॥ २४ ॥ दिश इति । तस्याः पूर्वस्याः दिशः पुनरावर्तमानः । विन्ध्यपादपसङ्कीर्णा दक्षिणां दिशं प्रस्थित इति सम्बन्धः ॥ १७ ॥ १८ ॥ प्राप्येति । सम्पश्यन्नित्यनुषज्यते । हिमवन्तं च मेरुं च उत्तरसमुद्रं च संपश्यन उत्तरां दिशं सम्प्रधावित इति सम्बन्धः । हिमवन्तं च सम्पश्यन्नित्यभिधानात् पश्चिमदिशोपि हिमवत्पर्यन्तं पुनरावृत्य | उत्तरां दिशं प्रधावित इत्यवगम्यते ॥ १९ ॥ २० ॥ यदा शरणं रक्षितारं न विन्दं नाविन्दम् । अडभाव आर्षः ॥ २१ ॥ इदानीमित्यादि सार्धश्लोकमेकं वाक्यम् राजन अस्मिन्नाश्रममण्डले वाली प्रविशेद्यदि अस्य मूर्द्धा शतधा भवेदिति मतङ्गेन पुरा हरीश्वरोऽभिशप्तः । तदिदानीं मे स्मृतमिति योजना ।। २२-२४ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy