________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मा.रा.भू. Mअथेति। अहं गुरुनिहत इति कृतयुद्धिः, अभवमिति शेपः। विनशेत विनश्येदित्यर्थः ॥७॥८॥ सामि अवसम् । दानवर्षभमायाविनम्॥९॥ भययन्त्रितः टी.कि.को ॥१३१॥ भयपरवशः॥१०॥ परिकालयते निरकासयत् ॥ ११॥ सानुबन्धः सामात्यः। नदीः पश्यनई प्रधावित इत्यन्वयः ॥ १२ ॥ १३ ॥ पश्याम
स०४६ अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः । शिला पर्वतप्तकाशा विलदारि मयावृता ॥७॥ अशक्नुवनिष्क्रमितुं महिषो विनशेदिति । ततोऽहमागां किष्किन्धा निराशस्तस्य जीविते । राज्यं च सुमहत्प्राप्तं तारया रुमया सह ॥८॥ मित्रैश्च सहितस्तत्र वसामि विगतज्वरः। आजगाम ततो वाली हत्वा तं दानवर्षभम् ॥९॥ ततोऽहमददा राज्यं गौरवाद्ययन्त्रितः ॥ १०॥ स मां जिघांसुर्दुष्टात्मा बाली प्रव्यथितेन्द्रियः । परिकालयते क्रोधाद्धावन्तं सचिवैस्सह ॥ ११ ॥ ततोऽहं वालिना तेन सानुबन्धः प्रधावितः । नदीश्च विविधाः पश्यन् वनानि नगराणि च ॥ १२॥ आदर्शतलसङ्काशा ततो वै पृथिवी मया। अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा ॥ १३ ॥ पूर्वी दिशं ततो गत्वा पश्यामि विविधान दुमान् । पर्वतांश्च नदी रम्याः सरांसि विविधानि च ॥ १४ ॥ उदयं तत्र पश्यामि पर्वतं धातुमण्डितम् । क्षीरोदं सागरं चैव नित्यमप्सरसालयम् ॥ १५॥ परिकालयमानस्तु वालिनाऽभिद्रुतस्तदा। पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो ॥१६॥ अपश्यम् ॥१४॥रामानु०-पर्वतांश्च नदी रम्याः इति पाठः साधुः ॥ १४ ॥ अप्सरसा अप्सरसाम् । पूर्वसवर्णदीर्घः। वालिनाभिद्रुतः परिकालयमानोऽहं ।। तद्रक्तपूर्ण बिलं दृष्ट्वा विस्मितः भ्रातृशोकविषादितश्चाभूवमिति शेषः ॥ ६॥ अथनानन्तरम् । गुरुः वाली मुव्यक्तं निहत इति गतबुद्धिः प्राप्तबुद्धिः आसमिति शेषः ॥ ७॥ विनशेत विनश्यदित्यर्थः ॥८॥ वसामि अवसम् ॥९॥१०॥ स मामिति । परिकालयते निरकासयत् ॥ ११ ॥ सानुबन्धः सामात्यः ॥ १२ ॥ अलातचक्रमतिमा आनियुक्तकाष्ठभ्रमणसमा, गैरिकादिधातुचित्रितचक्रवालपरिवृतत्वामेरलातचक्रसाम्यम् ॥ १३-१६ ॥ स०-दाली सचिवैस्सह धावन्तं माम् | अवालीति । अवाली न विद्यते वाली यस्येत्यबाली । अह मुत इति मत्ता एवं कृतवानिति अवाली सुग्रीव इति मवा प्रतिकालयत इत्यन्वये न पुनरुक्तिः ॥ ११॥
॥१३॥
For Private And Personal Use Only