SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir प्रष्टुं समुपचकम इत्यन्वयः ॥ प्रभवम् उत्पत्तिम् । कृत्स्नं गीतवादित्रमूलं चेत्यर्थः ॥८-११ ॥ पञ्चाप्सर क्रीडासाधनत्वात् पञ्चाप्सरो नाम । सार्वकालिकं सर्वकाले भवम् । “काला?" उभयपदवृद्धिः। सर्वस्मिन्नपि काले अघुष्यदित्यर्थः ॥ १२ ॥ उक्तार्थे इतिहासमाह-स हीत्यादिना Kजलाश्रयः स्वनिर्मिततटाकजलावगाढः ॥ १३॥ साग्निपुरोगमाः अग्निना पुरस्सरेण सहिताः। क्रियाभेदात्सर्वशब्दावृत्तिः ॥ १४ ॥ अस्माकं मध्ये इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् । निर्मितं तपसाराम मुनिना माण्डकर्णिना ॥१२॥ स हि तेपे तपस्तीवं माण्डकर्णिमहामुनिः। दशवर्षसहस्राणि वायुभक्षो जलाश्रयः॥ १३॥ ततः प्रत्यथिताः सर्वे देवाः साग्निपुरो गमाः। अब्रुन्वचनं सर्वे परस्परसमागताः॥ १४॥ अस्माकं कस्यचित्स्थानमेष प्रार्थयते मुनिः। इति संविनमनसः सर्वे ते त्रिदिवौकसः ॥ १५॥ तत्र कर्तुं तपोविघ्नं देवैः सर्वनियोजिताः। प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः ॥ १६ ॥ अप्सरोभिस्ततस्ताभिमुनिष्टपरावरः । नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये ॥ १७॥ ताश्चै वाप्सरसः पञ्च मुनेः पत्नीत्वमागताः। तटाके निर्मितुं तासामस्मिन्नन्तर्हितं गृहम् ॥ १८॥ तथैवाप्सरसः पञ्च निवसन्त्यो यथासुखम् । रमयन्ति तपोयोगान्मुनि यौवनमास्थितम् ॥ १९॥ तासां सङ्कीडमानानामेष वादित्र निस्वनः। श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः ॥२०॥ संविनमनसः भीतमनस्काः ॥१५॥ तत्र तदा । विद्युच्चलितवर्चसः विद्युत इव तरलतेजसः, चलितविद्युद्धर्चस इति वार्थः ॥१६॥ दृष्टपरावरः दृष्टपरमात्म Kजीवस्वरूपः ॥ १७॥३८॥ तपोयोगात् तपोरूपोपायात् यौवनमास्थितम् । “योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु" इत्यमरः ॥१९॥ संक्रीडमानाना मिति “क्रीडोऽनुसंपरिभ्यश्च" इत्यात्मनेपदम् । भूपणोन्मिश्रः भूषणघोषोन्मिश्रः वादिबनिःस्वनविशेषणम्। भूषणोन्मिश्रो वादिबनिःस्वनोगीतशब्दश्च पञ्चाप्सरोयस्मिन्निवसन्ति तत्पश्चाप्सर इति तटाकनाम ॥१२॥१३॥ सर्वे प्रव्यथिता अभूवन् सर्वे अब्रुवन्निति च सर्वशब्दद्वयस्य निर्वाहः । साग्निपुरोगमाः अग्निना। पुरोगमेन सहिताः साग्निपुरोगमाः ॥ १४ ॥ १५॥ विद्युञ्चलितवर्चसः चलद्विाद्वर्चसः प्रधानाप्सरसः पञ्चेत्यनेन तत्परिचारिका अन्या अपि सन्तीत्यदाम्यते ॥ १६ ॥ दृष्टपरावरः दृष्टौ परावरौ जीवात्मपरमात्मानौ येन स तथोक्तः । “ ब्रह्मणी वेदितव्ये परं चैवापरं च" इति श्रुतेः ॥ १७ ॥ निर्मितं तेनैव मुनिना KO क्रीडार्थमिति शेषः ॥ १८ ॥ १९ ॥ वादित्राणां निस्वनो यस्मिन स तथोक्तः। भूषणोन्मिश्रः भूषणस्वनोन्मिश्रः। गीतशब्दो विशेष्यम् । प्रतिजग्राह शुश्रावे For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy