________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyarmandir
चा.रा.भ.
दिना नारायणपदार्थः प्रकाशित इति संप्रदायः ॥ १॥ तावित्यादि । पश्यमानौ पश्यन्तौ । शैलप्रस्थान् शैलसानूनि । सारसान इंसविशेषान् । पुलिनं टी.आ.का. सकतम् । जलजैः खगैः जलपक्षिभिः॥२॥३॥ यूथबद्धान यूथतया बद्दान्, समूहीभूतानित्यर्थः । पृषतान् बिन्दुमृगान् । विषाणिन इति महिषादिस०११ विशेषणम् । नागान् गजान् ॥ ४॥ लम्बमाने अस्तमयोन्मुखे । योजनायतं चतुर्दिशि योजनप्रमाणविस्तारम् । पद्मपुष्करसम्बाघ पौः पुष्करैः सपैश्च
सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः । सरांसि च सपद्मानि युक्तानि जलजैः खगैः ॥३॥ यूथबद्धांश्च एषतान मदोन्मत्तान्विषाणिनः। महिषांश्च वराहांश्च नागांश्च द्रुमवरिणः॥४॥ ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे । ददृशुः सहिता रम्यं तटाकं योजनायतम् ॥५॥ पद्मपुष्करसम्बाधं गजयूथैरलंकृतम् । सारसैर्हसकादम्वैः सङ्कुल जलचारिभिः॥६॥ प्रसन्नसलिले रम्ये तस्मिन सरसि शुश्रुवे । गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते ॥७॥ ततः कौतूहलाद्रामो लक्ष्मणश्च महाबलः । मुनि धर्मभृतं नाम प्रष्टुं समुपचक्रमे ॥ ८॥ इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने । कौतूहलं महज्जातं किमिदं साधु कथ्यताम् ॥९॥ वक्तव्यं यदि चेदिप्रनातिगुह्यमपि प्रभो
॥१०॥ तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा। प्रभवं सरसः कृत्स्नमाख्यातुमुपचक्रमे ॥११॥ सम्बाधं निबिडम् । “वाद्यभाण्डमुखे सपै कारण्डे पुष्करं स्मृतम्” इति विश्वः। सारसैः “सारसो मैथुने कामी गोनर्दः पुष्कराह्वयः" इत्युक्तेः । हसः राजहंसः। कादम्बैः " कादम्बः कलहंसश्च हंसः स्यासरच्छदः” इत्युक्तेः ॥५॥६॥ गीतेति । गीतानि षड्जादिस्वरनिबद्धप्रबन्धाः । वादिवाणि ततधनसुषिरानभेदेन चतुर्विधानि तेषां निर्घोषः । अत्र यादवः-“वादित्रं वादितं वाद्यमातोयं तच्चतुर्विधम् । ततं वीणादिकं वाद्यं तालं तु विततं । धनम् । वंशादिकं तु सुषिरमानद्धं सुरजादिकम्॥” इति। कश्चन वादयिता न दृश्यते नादृश्यत ॥७॥ धर्मभृतं सहागतेषु मुनिष्वन्यतमम् । कथ्यतामित्येवं ॥२८॥ यूथबद्धान् यूथतया बद्धान् । पृषतान् बिन्दुमृगान् ॥ ४॥ ५॥ पद्मपुष्करसम्बाधं पद्माना रक्तपखजानाम्, पुष्कराणां पुण्डरीकाणाम् “पुष्करं पुण्डरीकम्" इति निघण्टुः । सम्बाधः सम्मों यस्मिन् तम् ॥ ६ ॥ नतु कश्चन दृश्यते गीतादिकतेत्यर्थः ॥ ७॥ धर्मभृतं शरणागतेष्वनुयायिषु मुनिष्वेकं मुनिम् ॥ ८-११॥
For Private And Personal Use Only