________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भान्तीति शेषः ॥४५॥ सर्वेति । नगोत्तमैः पर्वतश्रेष्ठैः। अवगाढाः प्रविष्टा इति निम्नगाविशेषणम् ॥४६॥ पत्ररथाकुलाः । पक्षिभिराकुलाः सर्वकामान् सर्वाभीष्टान् ॥४७॥४८॥ रामानु-नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः इति पाठः । नगोत्तमाः वृक्षश्रेष्ठाः ॥ ४८ ॥ मुक्तेति । सर्वर्तुसुखसेव्यानि हेमन्तातुष्वपि नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः। दिव्यगन्धरसस्पर्शाः सर्वकामान स्रवन्ति च ॥४७॥ नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ॥४८॥ मुक्तावैडूर्यचित्राणि भूषणानि तथैव च । स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च । सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः ॥४९॥ महार्हाणि च चित्राणि हैमान्यन्ये नगोत्तमाः । शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च ॥५०॥ मनाकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः । पानानि च महार्हाणि भक्ष्याणि विविधानि च ॥५॥ स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः। गन्धर्वाः किन्नराः सिद्धा नागा विद्याधरास्तथा । रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः ॥ १२ ॥ सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः । सर्वे कामार्थसहिता वसन्ति सहयोषितः ॥५३ ॥ गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः । श्रूयते सततं तत्र सर्वभूतमनोहरः॥५४॥ तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः। अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ॥५५॥ समतिक्रम्य तं देशमुत्तरः पयसानिधिः ॥ ५६॥ तत्र सोमगिरिनाम मध्ये हेममयो महान् । इन्द्रलोक गता ये च ब्रह्मलोकगताश्च ये। देवास्तं समवेक्षन्ते गिरिराज दिवं गताः॥५७॥ स तु देशो विमूर्योऽपि तस्य भासा
प्रकाशते । सूर्यलक्षम्याऽभिविज्ञेयस्तपतेव विवस्वता ॥ ५८॥ सुखेन सेवितुं योग्यानि ॥ ४९-५२॥ सर्व इति । सहयोषितः योपित्सहिताः ॥५३॥ रामानु०-सहयोपित इत्येतदेकं पदम् ॥ ५३॥ गीतेति । सोत्कृष्टहसित स्वनः उत्कृष्टहासशब्दसहितः ॥५४॥ तत्रेति । असत्प्रियः अविद्यमानाङ्गनः । गुणाः सुखादयः ॥ ५५ ॥ समतिकम्येति । पयसानिधिः लवण समुद्रः, अस्तीति शेषः ॥५६॥ तत्र लवणसमुद्रे । मध्ये मध्यदेशे। ये दिवं गता इत्यनुपज्यते ॥१७॥ स देशः विसूोपि रात्रौ विगतसॉपि श्रेष्ठः ॥४६ ॥ पत्ररथाः पक्षिणः ॥ ४७-४९ ॥ नगोत्तमाः वृक्षश्रेष्ठाः ॥ ५०-५५॥ उत्तरः पयसानिधिः उत्तरलवणसमुद्रः, अस्तीति शेषः ।। ५६॥ तत्र लवणसमुद्रे मध्ये मध्यप्रदेशे ॥५७ ॥ स देशो विसोपि रात्रौ विगतसूर्योपि विगतसूर्यकिरणोपीति वा । तस्य सामगिरेः भासा प्रकशते । कथमिव ! सूर्यलक्ष्म्याभिविज्ञेयः
।
For Private And Personal Use Only