SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ।। १२६ ।। www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir अर्कस्य गभस्तिभिरिव स्थितैः स्वयंप्रभैः स्वतः सिद्धज्ञानैः तपःसिद्धैः प्रकाशते ॥ ३८॥ तं त्विति । निम्नगा वर्तत इति शेषः ॥ ३९ ॥ उभयोरिति । तस्याः शैलोदायाः उभयोस्तीरयोः कीचका नाम वेणवः सन्ति । ते उभयतीरजाः कीचकाः अन्योन्यसंग्रथिततया गमनसाधनभूताः सन्तः सिद्धान् परं तीरं नयन्ति प्रत्यानयन्ति च ॥ ४० ॥ रामानु० - उभयोस्तीरयोस्तस्याः कीचका नाम वेगवः । ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च ॥ इति पाठः ॥ ४० ॥ उत्तराः तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ॥ ३९ ॥ उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः । ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च ॥ ४० ॥ उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥ ४१ ॥ ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः । नीलवैडूर्यपत्त्राभिर्नद्यस्तत्र सहस्रशः ॥ ४२ ॥ रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः । तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः ॥ ४३ ॥ महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः । नीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः ॥ ४४ ॥ निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः । उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ ४५ ॥ सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः । जातरूपमयैश्चापि हुताशनसमप्रभैः ॥ ४६ ॥ कुरवः उत्तरकुरुसंज्ञकाः देशाः वर्तन्त इति शेषः । कृतपुण्यानां प्रतिश्रयाः आश्रयभूताः आवासभूताः ॥ ४१ ॥ ततः कृतपुण्यप्रतिश्रयत्वाद्धेतोः । कृतपुण्यभोग्यभूमित्वात् उक्तविशेषा नद्यः सन्तीति भावः । पद्मिनीभिः पद्मलताभिः कृतोदकाः पर्याप्तोदकाः । “युगपर्याप्तयोः कृतम्” इत्यमरः ॥४२॥ | रक्तेत्यविभक्तिकनिर्देशः । रक्तैरुत्पलवनैर्हिरण्मयैरुत्पलवनैः, तरुणादित्यसदृशैरुत्पलवनैश्वेत्यर्थः। तत्रात्र तेष्वेतेषु कुरुष्वित्यन्वयः॥४३॥ महाईमणयो नील | रत्नानि । तत्तुल्यपत्रैः ॥४४॥ निस्तुलाभिः वर्तुलाभिः । "वर्तुलं निस्तुलं वृत्तम्" इत्यमरः । महाधनैः बहुमूल्यैः । उद्भूतपुलिनाः उन्नतपुलिनाः। निम्नगाः | तमित्यादिश्लोकद्वयमेकं वाक्यम् । उभयोस्तीरयोर्जताः कीचकाः अन्योन्यसंग्रथिततया गमन साधन भूतास्सन्तः सिद्धान् परं तीरं नयति प्रत्यानयन्ति चेति सम्बन्धः ॥ | टी- देश सिद्धाश्रमसरः प्रान्तदेशम् । तस्याः शैलोदाया उपयोस्तीरयोः कोचका नाम वैणवः सन्तीति शेषः । “वेणवः काँचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः " इत्यमरः ॥ ३९ ॥ ४० उत्तरकुरुसंज्ञकाः तत्र वर्तन्त इति शेषः । कृतपुण्यप्रतिश्रयाः, पुण्यानां प्रतिश्रया आश्रयभूताः ज्योतिष्टोमादयः ते कृता यैस्ते कृतपुण्यप्रतिश्रयाः । यद्वा कृतपुण्यानां सुकृतिनां प्रतिश्रया इति वा । ततः कृतपुण्यप्रतिश्रयत्वात् । काञ्चनपद्माभाः पद्मिनीभिः कृतोदकाश्च दिव्यसरसीभिः कृतजलक्रीडादिकाः । नीलवैदूर्येत्यादिना उत्तरकुरुदेशो वर्ण्यते- नीलवैडूर्याणि पत्राणि च तैराडचाः नीलवेंर्यपत्राचाः ॥ ४१-४४ ॥ निस्तुलाभिः वर्तुलाभिः “ निस्तुलं वर्तुलं वृत्तम् " इत्यमरः ॥ ४५ ॥ नगोत्तमैः पर्वत For Private And Personal Use Only टी.कि.का. स० ४३ ।। १२६॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy