________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandir
मध्यतटाः । भूधराः अधित्यकाः ॥ ३० ॥ क्रौञ्चं गिरिमतिक्रम्य कौञ्चगिरेः परतः । मैनाको नाम पर्वतः, वर्तत इति शेषः ॥ ३१ ॥ अश्वमुखीनां किंपुरुषस्त्रीणाम् ॥ ३२ ॥ तं देशमिति । आश्रमं सिद्धसेवितम्, अस्तीति शेषः ॥ ३३ ॥ तपःसिद्धाः अणिमाद्यटैश्वर्यप्तिद्धियुक्ताः ॥३४॥
क्रौञ्च गिरिमतिक्रम्य मैनाको नाम पर्वतः । मयस्य भवनं यत्र दानवस्य स्वयं कृतम् ॥३१॥ मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः । स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु॥३२ ॥ तं देशंसमतिक्रम्य आश्रमं सिद्धसेवितम् । सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥३३॥ वन्द्यास्ते तु तपस्सिद्धास्तपसा वीतकल्मषाः । प्रष्टव्या चापि सीतायाः प्रवृत्तिविनयान्वितैः ॥ ३४॥ हेमपुष्करसंछन्नं तस्मिन् वैखानसं सरः । तरुणादित्यसंकाशैईसैविचरितं शुभैः ॥३५॥ औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः । गजः पर्येति तं देशं सदा सह करेणुभिः॥३६॥ तत्सरः समतिक्रम्य नष्टचन्द्रदिवाकरम् । अनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥३७॥ गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते । विश्राम्यद्भिस्तपस्सिद्धैर्देवकल्पैः स्वयंप्रभैः ॥ ३८॥ रामानु०-प्रपल्या चापि सीतायाः प्रवृत्तिविनयान्वितरिति पाठः ॥ ३४ ॥ ॥ ३५॥ औपवाद्यः राजाह वाहनम् । "राजवाहस्सोपवायः" इत्यमरः ॥३६॥ अथ महाश Mमेरुपर्यन्तेलावृतप्रदेशानुपदिशति-तत्सर इति । उत्तरत्र “हिमवन्तं च मेरंच समुद्रं च तथोत्तरम्" इति वक्ष्यमाणवादत्र मेरुकीर्तनप्रसक्तिरेव नास्तीति न भ्रमितव्यम् । व्योम, वर्तत इति शेषः । व्योम्रो नष्टचन्द्रदिवाकरादित्वं नियतमार्गवतिनां चन्द्रसूर्यादीनां मेरुनिकटे किरणसञ्चाराभावात् । तदुक्तं विष्णुपुराणे-" यावत्पुरस्तात्तपति तावत्पृष्टे च पार्श्वयोः। ऋते हेमगिरेमरोरुपरि ब्रह्मणः सभाम् ॥” इति ॥ ३७ ॥ गभस्तिभिरिति । स देशः क्रौञ्चं गिरिमतिक्रम्य क्रौधगिरेः परं मैनाको नाम पर्वतो वर्तत इति शेषः ॥ ३१ ॥ स्त्रीणामञ्चमुखीनां किम्पुरुषयोषिताम् ॥ ३२॥ आश्रमं सिद्धसेवितम्, अस्तीति
शेषः ॥ ३३ ॥ तपस्सिद्धाः तपसा सिद्धाः अणिमाद्यष्टैश्वर्यसिद्धियुक्ताः ॥ ३४ ॥ ३५ ॥ ओपवाह्यः राजवाहनम् । पर्योत अटति ॥ ३६ ॥ व्योम, वर्तत इति शेषः । दव्योम्नो नष्टचन्द्रदिवाकरत्वं नियतमार्गवर्तिनां चन्द्रादीनां तत्र सधाराभावात ॥ ३७॥ ३८॥
For Private And Personal Use Only