SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir बा.रा.भू. टी.किका ॥१२५॥ पतं विति । कैलासमिति । यद्यपि कैलासो हिमवदेकदेश इति पुराणान्तरोक्तं तथापि तदविरुद्धं ज्ञेयम्, मध्ये शून्यप्रदेशेपि तावत्पर्यन्तं हिमवानिति ॥२१॥ तत्रेत्यादि । तत्र कैलासे। नलिनी मानसाख्यसरसी ॥२२॥२३॥ तत्रेति । तत्र कैलासे ॥२४॥ तस्य कैलासस्य । पर्वतेषु पर्यन्तपर्वतेषु ॥ २५ ॥ विलं तं तु शीघ्रमतिक्रम्य कान्तारंरोमहर्षणम् । कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ॥२१॥ तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम्। कुबेरभवनं दिव्यं निर्पितं विश्वकर्मणा ॥ २२ ॥ विशाला नलिनी यत्र प्रभूतकमलोत्पला । हंसकारण्डवाकीर्णा ह्यप्सरोगणसेविता ॥२३॥ तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः । धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट् ॥ २४ ॥ तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ २५॥ क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् । अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥२६॥ वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः। देवैरप्यर्चिताः सम्यग देवरूपा महर्षयः ॥ २७॥ क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च । निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥ २८ ॥ क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः । अवृक्षं कामशैलं च मानसं विहगालयम् ॥ २९॥ न गतिस्तत्र भूतानां देवदानवरक्षसाम् । स च सर्वेविचेतव्यः ससानुप्रस्थभृधरः ॥ ३० ॥ स्कन्दशक्तिकृतम् ॥२६-२८॥ क्रौञ्चस्येत्यादि । शिखरं च प्रधानभूतं शिखरं च । अवृक्षं अवृक्षाख्यं प्रत्यन्तपर्वतम् । विहगालयं मानसं मान । साख्यं गिरिं च निरीक्ष्य ते विचेतव्या इति पूर्वेण संबन्धः ॥२९॥ न गतिरिति । तत्र मानसाख्ये पर्वते । ससानुप्रस्थभूधरः, सानवः उपत्यकाः, प्रस्थाः नलिनी मानसाख्यप्तरसी ॥ २३ ॥ २१॥ तस्य कैलासस्य । पर्वतेषु पर्यन्तपर्वतेषु ॥ २१ ॥ क्रौश्चमिति । बिलं स्कन्दशक्तिकृतं रन्धम् ॥ २६-२८ ॥ क्रोश्वस्य शिखरं प्रधानभूतं शिखरं च अवृक्षम् अवृक्षाख्यप्रत्यन्तपर्वतं कामशैलं च मानसं मानसाख्यगिरि ततो निरीक्ष्य विचेतव्या इति पूर्वेण सम्बन्धः ॥ २९॥ तब मानसारये पर्वते । सः मानसपर्वतः । सानुः पर्वतपार्चसमतलः । प्रस्थस्तु विषमतलः ॥ ३० ॥ ॥१२५॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy