SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir इमानि वक्ष्यमाणानि । नद्यः नदीः । तत्रेति । भरतान् इन्द्रप्रस्थादिप्रदेशान् । कुरून् दाक्षिणकुरून् हिमवदन्तान् पुनः पुनरवीक्ष्य परिमार्गन्विति। पूर्वेण संबन्धः॥ १०-१३॥ लोधेति । पद्मकाश्चन्दनविशेषाः, साहचर्यात् ॥ १४ ॥ रामानु०-लोध्रपनकषण्डेष्वित्यत्र पद्मकशब्दश्चन्दनव्यतिरिक्तवृक्षविशेषवाची, इमानि वनदुर्गाणि नद्यः शैलान्तराणि च । भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा॥१०॥ तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च । प्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः ॥११॥ काम्बोजान यवनांश्चैव शकानारट्टकानपि । बाहीकानृषिकांश्चैव पौरवानथ टङ्कणान् ॥१२॥ चीनान परमचीनांश्च नीहारांश्च पुनः पुनः। अन्वीक्ष्य दरदांश्चैव हिमवन्तं तथैव च ॥ १३ ॥ लोध्रपाकषण्डेषु देवदारुवनेषु च ।रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥१४॥ ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् । कालं नाम महासानु पर्वतं तु गमिष्यथ ॥ १५॥ महत्सु तस्य शैलस्य निदरेषु गुहासु च । विचिनुध्वं महाभागां रामपत्नी ततस्ततः॥ १६॥ तमतिक्रम्य शैलेन्द्रं हेमगर्भ महागिरिम् । ततः सुदर्शनं नाम गन्तुमर्हथ पर्वतम् ॥ १७॥ ततो देवसखो नाम पर्वतः पतगालयः । नानापक्षिगणाकीर्णो विविधद्रुमभूषितः ॥१८॥ तस्य काननषण्डेषु निर्झरेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥१९॥ तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् । अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम् ॥२०॥ अकाले वनद्रव्यभूतलोध्रादिसहपाठात् ॥ १४ ॥ ॥ १५॥१६॥ तं कालं नाम महागिरिमतिकम्य । ततः तस्मात् । सुदर्शनं पर्वतं गन्तुमर्हथ ॥१७॥ तत इति Vापतगालयः पक्षिणामावासभूतः । पक्षिणां वैविध्यमाह-नानापक्षिसमाकीर्ण इति ॥ १८ ॥रामानु-ततो देवसरखो नाम पर्वतः पर्वताल या इति पाठः । पर्वतालयाः । इति वानराणां संबोधनम् ॥ १८ ॥ १९॥ तमिति । तमतिकम्य तस्माद्देवसखाख्यपर्वतात्परम् । अपर्वतनदीवृक्षं शुन्यारण्यस्थलम् । वर्तत इति शेपः ॥२०॥ चरेत कुर्यात तस्य जन्म सफलं स्यात, पूर्वकारिणः किंपुनः ॥७-९॥ इमानाति । नद्यः नदीः ॥१०॥भरतान् इन्द्रप्रस्थहस्तिनापुरप्रदेशान् । कुरून् कुरुक्षेत्रप्रदेशान । म्लेच्छादीन हिमवदन्तान देशान पुनः पुनरन्वीक्ष्य परिमार्गन्विति पूर्वेण सम्बन्धः ॥ ११-१७ ॥ तत इति । पर्वतालया इति कपिसम्बोधनम् ॥ १८ ॥ १९ ॥ सतमतिक्रम्य देवसखाख्यपर्वतात्परम् । आकाशं शून्यावरणस्थलम, वर्तत इति शेषः ॥ २०-२२ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy