SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प.रा.भ. ।। १२३ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हरिहयः श्यामवर्णाश्वयुक्तः । राजाऽभिषिक्तः राजत्वेनाभिषिक्तः ।। ३३-३६. || वरमेवाह - तेनैवमिति । प्रभया रक्ता भविष्यन्तीत्यन्वयः तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः । मत्प्रसादाद भविष्यन्ति दिवा रात्रौ च काञ्चनाः ॥ ३७ ॥ त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः । ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः ॥ ३८ ॥ विश्वेदेवाश्च मरुतो वसवश्च दिवौकसः । आगम्य पश्चिमां सन्ध्यां मेरुमुत्तरपर्वतम् ॥ ३९ ॥ आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभि पूजितः । अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम् ॥ ४० ॥ योजनानां सहस्राणि दश तानि दिवाकरः । मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम् ॥ ४१ ॥ शृङ्गे तस्य महद्दिव्यं भुवनं सूर्यसन्निभम् । प्रासादगण संबाधं विहितं विश्वकर्मणा ॥ ४२ ॥ शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः । निकेतं पाशहस्तस्य वरुणस्य महात्मनः ॥ ४३ ॥ अन्तरा मेरुमस्तं च तालो दशशिरा महान् । जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः ॥ ४४ ॥ तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४५ ॥ यत्र तिष्ठति धर्मज्ञ स्तपसा स्वेन भावितः । मेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः ॥ ४६ ॥ ॥ ३७ ॥ ३८ ॥ विश्वेदेवा इति । पश्चिमां सन्ध्याम् “अत्यन्तसंयोगे द्वितीया ” । मेरुसदृशत्वान्मेरुम् । मेरुमागम्य आदित्यमुपतिष्ठन्ति पूजयन्ति । तेन आदित्येन || ३७ || ३८ || विश्वदेवादयः पश्चिमां सन्ध्याम् अस्मदपेक्षया उत्तरपर्वतं मेरुमासाद्य वर्तमानमादित्यमुपतिष्ठन्ति पूजयन्ति । अस्तगिरिसमीपस्थ सावर्णिमेरोरभिधानात् तत्तः पूर्वस्था अनुक्तास्समुद्रद्वीपादयोपि मार्गितव्यत्वेनोक्ता इत्यवगन्तव्यम् ॥ ३९ ॥ ४० ॥ मेरुपर्वतास्ताचलमध्यदेशप्रमाणं सूर्यस्य गतेर्वेगं चाह-योजनानामिति । दिवाकरस्तमस्ताख्यं शिलोच्चयमभिमुखीभूय मुहूर्तार्थेन मुहूर्ताद्धों घटिकाया अपि स्वल्पकाल इति मन्तव्यम्, योजनानां दशसहस्राणि गच्छतीति सम्बन्धः । मेरोरस्ताचलस्य चान्तरमयुनयोजन परमिति यावत् ॥ ४१-४३ ॥ अन्तरेति । अन्तरा मेरुमस्तं च सावर्णिमेरोरस्ता चलस्य च मध्ये ॥ ४४ ॥ ४५ ॥ यत्र मेरो ॥ ४६ ॥ ४७ ॥ Tel For Private And Personal Use Only टी.कि.कां. सं० ४२ ।। १२३॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy