SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || चतुर्भागे चतुर्थभागे । समुद्रस्य लवणसमुद्रस्य ॥ २५ ॥ तत्र चक्रवत्पर्वते । पुरुषोत्तमो विष्णुः । " श्रीपतिः पुरुषोत्तमः " इत्यमरः । चक्ररक्षकं हय ग्रीवाख्यं दानवं हत्वा चक्रम्, पञ्चजनाख्यं दानवं हत्वा तदस्थिभूतं पाञ्चजन्याख्यं शङ्खं च जग्राह । कृष्णः पञ्चजनं हत्वा पाञ्चजन्यं जग्राहेत्युच्यते । चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः । तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा ॥ २५ ॥ तत्र पञ्चजनं हत्वा हयग्रीवं नवम् । आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः ॥ २६ ॥ तस्य सानुषु चित्रेषु विशालासु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ २७ ॥ योजनानां ततः षष्टिर्वराहो नाम पर्वतः । सुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये ॥ २८ ॥ तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् | यस्मिन्वसति दुष्टात्मा नरको नाम दानवः ॥ २९ ॥ तत्र सानुषु चित्रेषु विशालासु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ३० ॥ तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः । पर्वतः सर्वसौवर्णो धाराप्रस्रवणायुतः ॥ ३१ ॥ तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः । अभिगर्जन्ति सततं तेन शब्देन दर्पिताः ॥ ३२ ॥ यस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः । अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः ॥ ३३ ॥ तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् । षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ ॥ ३४ ॥ तरुणादित्यवर्णानि भ्राजमानानि सर्वतः । जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः ॥ ३५ ॥ तेषां मध्ये स्थितो राजा मेरुरुत्तरपर्वतः । आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा ॥ ३६ ॥ तद्विष्ण्यवतारेप्यस्तीति ज्ञेयम् ॥ २६-२८॥ तत्र वराहपर्वते ॥ २९ ॥ ३० ॥ तमतिक्रम्य तस्मात्परत इत्यर्थः । काञ्चनान्तरनिर्दरः सौवर्णमयान्तरप्रदेश वत्कन्दरः, अन्तर्बहिश्च सौवर्णकन्दरः इत्यर्थः॥३१॥ तं गजाश्रेति । तेन शब्देन स्वशब्देन दर्पिता गजादयस्तं पर्वतमभिगर्जन्ति ॥ ३२ ॥ यस्मिन्निति । सम्यगुत्पन्नः ॥ २३॥२४॥ चतुर्भागे समुद्रस्य लवणसमुद्रस्य ||२५|| कस्मिंश्चिदेवासुरयुद्धे विष्णोरवतारः पुरुषोत्तमः पञ्चजनं हयग्रीवाख्यं दानवंच हत्वा सुदर्शन पाञ्चजन्यो जग्राहेति पौराणिकी कथा ।। २६-२८ ।। तत्र वराहपर्वते ॥ २९ ॥ ३० ॥ तमिति । काञ्चनाः स्वर्णविकारा अन्नरनिदेरा मध्यपाषाणसन्धयो यस्य सः ॥ ३१ ॥ तेन शब्देन स्वकीयध्वन्युत्पन्नमतिध्वनिना दर्पिना गजादयस्तं पर्वनमभिगर्जन्ति ।। ३२-३६ ।। For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy