SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kasagarsun Gyarmandir चा.रा.भू. का टी.कि.को स०१२ ॥१२२॥ समन्ततस्तोयपूर्णेऽस्मिन् स्थले ये गजाः सन्ति गिरिशृङ्गगताश्च ये ते गजास्तानि नीडानि विचरन्ति, सिंहनीडाश्रयसानुषु विचरन्तीत्यर्थः । बाधक स्थानगमने हेतुमाइ दृप्ता इति ॥ १६॥ तस्येति । कपिभिः, भवद्भिरिति शेषः ॥ १७॥ तत्र समुद्रे गतां पारियात्रस्य कोटि शृङ्गम् ॥ १८॥ तस्य शृङ्गं दिवस्पर्श काञ्चनं चित्रपादपम् । सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः ॥ १७ ॥ कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनाम् । दुर्दशी पारियात्रस्य गतां द्रक्ष्यथ वानराः ॥ १८ ॥ कोट्यस्तत्र चतु विशद्गन्धर्वाणां तरस्विनाम् । वसन्त्यनिनिकाशानां घोराणां कामरूपिणाम् ॥ १९ ॥ पावकार्चिःप्रतीकाशाः समवेताःसहस्रशः। नात्यासादयितव्यास्ते वानरैीमविक्रमैः॥२०॥ नादेयं च फलं तस्माद्देशात् किंचित् प्लवङ्गमैः। दुरासदा हिते वीराः सत्त्ववन्तो महाबलाः॥२१॥ फलमूलानिते तत्र रक्षन्ते भीमविक्रमाः । तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी। न हि तेभ्यो भयं किंचित् कपित्वमनुवर्तताम् ॥ २२ ॥ तत्र वैडूर्यवर्णाभो वजसंस्थान संस्थितः। नानाद्रुमलताकीर्णो वजो नाम महागिरिः ॥ २३ ॥ श्रीमान् समुदितस्तत्र योजनानां शतं समम् । गुहास्तत्र विचेतव्याःप्रयत्नेन प्लवङ्गमाः ॥२४॥ रामानु०-कोटि तत्र समुद्रस्पति पाठः ॥१८॥१९॥ पावकार्चिःप्रतीकाशा इत्यादि । नात्यासादयितव्याः नातिसमीपं प्राप्तव्याः । नादेयं न स्वीकार्यम् । तर्हि ते गन्धर्वा अस्मान् हनिष्यन्तीत्यत्राह-तत्रेति । यत्नः फलचापलानिवृत्तौ यत्रः कर्तव्यः। विशालत्वादन्वेषणे यत्रो वा । न किंचिद्भयम् । कपिसंचा रस्य वनमात्रधर्मत्वादिति भावः । अनुवर्तताम् अनुवर्तमानानाम् ॥२०-२२ ॥ रामानु-नादेयमिति । न आदेयमिति च्छेदः । तेषां दुरासदत्वे तत्र कथं मार्गणं घटत इत्याशझ्याह तत्रति । हि यस्मात् कारणात् कपित्वमनुवर्ततां प्राकृतकपित्वमनुवर्तमानानां भवतां तेभ्यो भयं न । तस्मात्तत्र यत्नः कर्तव्यः, जानकी मागिंतव्या चेति सम्बन्धः ॥२१॥२२॥ तत्र वैडूयेत्यादिसायश्लोक एकान्वयः । श्रीमानिति । योजनानां शतं समं यथा भवति तथा समुदितः समुन्नतः ॥ २३ ॥२४॥ सिंहनीडाश्रयसानुषु विचरन्तीत्यर्थः । बाधकबाहुल्येपि सचारात पर्वतस्यातिरमणीयत्वमवगम्यते, जातिप्रयुक्तवैरीस्सिहाध्यमाना अपि गजास्तगिरि न जह तीति भावः ॥ १६-१८॥ कोटिमिति । तत्र समुद्र पारियात्रस्य कोटिं द्रश्यति सम्बन्धः ॥ १९ ॥ २० ॥ नादेयम् आदातुमर्ह न भवति ॥२१॥ तेभ्यो गन्ध बेभ्यो भयं नास्ति ते रामकार्यसहायत्वादिति भावः ॥ २२ ॥ तत्र वैडूर्येत्यादि सार्धश्लोकमेकं वाक्यम् । योजनाना शनं समं यथा तथा । समुदितः १२२॥ For Private And Personal use only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy