SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir पण्डान् केतकवनानि । प्रत्यक स्रोतो गच्छन्तीति प्रत्यक्त्रोतोगमाः। शिवाः पावनाः । कान्ताराः दुर्गममार्गाः । तान् मार्गध्यमिति पूर्वेण संबन्ध ७-८॥ ततः स्थलीमित्यादि श्शेकद्वयमेकान्वयम् । स्थल्यादिकं मागित्वा ततः तस्माद्देशात् पश्चिमं समुद्रमागम्य तिमिनकायुतजलमक्षोभ्यं तं द्रष्टु महथ ।। ९॥ १० ॥ रामानु०-तिमिनकायुत जलमनोभ्यमय वानरा इति पाठः ॥ १० ॥ तत इति । कपयो भवदीयाः ॥ ११ ॥ तत्रेति । वेलातटनिविष्टेषु । प्रत्यक्स्रोतोगमाश्चैव नद्यःशीतजलाः शिवाः। तापसानामरण्यानि कान्तारा गिरयश्च ये ॥८॥ ततः स्थली मरु प्रायामत्युच्चशिरसः शिलाः। गिरिजालावृतां दुर्गा मार्गित्वा पश्चिमां दिशम् ॥ ९॥ ततः पश्चिममासाद्य समुद्र द्रष्टुमर्हथ । तिमिनक्रायुतजलमक्षोभ्यमथ वानराः॥१०॥ ततः केतकषण्डेषु तमालगहनेषु च । कपयो विहरिष्यन्ति नारिकेलवनेषु च ॥ ११॥ तत्र सीतां च मार्गध्वं निलयं रावणस्य च । वेलातटनिविष्टेषु पर्वतेषु वनेषु च ॥ १२॥ मुरचीपत्तनं चैव रम्यं चैव जटीपुरम् । अवन्तीमङ्गलोपांच तथा चालक्षितं वनम् । राष्ट्राणि च विशालानि पत्तनानि ततस्ततः॥१३॥ सिन्धुसागरयोश्चैव सङ्गमे तत्र पर्वतः। महान हेमगिरि म शतशृङ्गो महाद्रुमः॥१४॥ तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः । तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते ॥ १५॥ तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये। दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः । विचरन्ति विशालेऽस्मिन् तोयपूर्णे समन्ततः॥१६॥ वेलायाम् अम्बुविकृतौ तटे च स्थितेषु । “अध्यम्वुविकृतौ वेला कालमर्यादयोरपि" इत्यमरः ॥ १२॥ रचीति । पूर्वस्यां दिश्यवन्त्यन्या । इयं| चान्या । यत्र प्रविष्टा वननैरन्तर्येण न लक्ष्यन्ते तदलक्षितं नाम । मार्गध्वमित्यनुपङ्गः॥ १३॥ सिन्धुनदविशेषः । तत्र पश्चिमदिशि । पक्षर्गच्छन्तीति पक्षगमाः, सपक्षा इति विशेषणम् । नीडानि वृक्षाग्रस्थस्वावासस्थानानि । अत एव महाद्रम इति पूर्वमुक्तम् ॥ १४ ॥१५॥तानीत्याद्यर्धत्रयम् । विशेषः । कान्तारा गिरयश्च एतानपि मार्गध्वमिति पूर्वेण सम्बन्धः ।। ७-१० ॥ कप रो भवदीयाः ॥११॥ तत्रेति । पत्तनानि ततस्तत इत्येतत्पर्यन्तं मार्गध्वमित्यनु । ज्यते ॥ १२ ॥ अवन्तीमङ्गलोपा चेति द्वे नगयों ॥ १३ ॥ १४ ॥ पक्षगमाः पक्षाभ्यां गच्छन्तीति पक्षगमाः, सपक्षा इत्यर्थः । सिंहाः तिमिमत्स्यगजानीडान्या रोपयन्ति स्वावासस्थानानि प्रापयन्ति ॥ १५ ॥ नानीति । समन्ततः नोयपूर्णे अस्मिन्स्थले ये गजास्सन्ति गिरिशृङ्गगताश्च येते गजास्तानि नीडानि विचरान्ति For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy