________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
नदीतीरवनभवः । पार्वतीयः पर्वतोत्पन्नः । वनचारिभिः आवृतेति पूर्वेणान्वयः ॥ ११-१४ ॥ तत इति । तारायाः पिता सुषेणः ॥ १५ ॥ तथेति । रुमायाः पिता तारः॥१६-२०॥ माहचलेति । कोटिभिः कोटिसंख्याकैः ॥२१-२३॥ दुरीमुखश्चेति । सुग्रीवं समुपस्थितः प्राप्तः ॥२४॥ ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता। अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत ॥१५॥ तथाऽपरेण कोटीना सहस्रेण समन्वितः। पिता रुमायाः संप्राप्तः सुग्रीवश्वशुरो विभुः ॥ १६॥ पद्मकेसरसंकाशस्तरुणार्कनिभाननः । बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः ॥ १७॥ अनीकैबहुसाहानराणां समन्वितः । पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत ॥ १८॥ गोलागृलमहाराजो गवाक्षो भीमविक्रमः । वृतः कोटिसहस्रेण वानराणामदृश्यत ॥ १९॥ ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः । वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत ॥२०॥ महाचल निभैरैः पनसो नाम यूथपः। आजगाम महावीयस्तिमृभिः कोटिभिवृतः॥२१॥ नीलाञ्जनचयाकारो नीलो नामाथ यूथपः । अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः ॥ २२ ॥ ततः काञ्चनशैलाभो गवयो नाम यूथपः। आजगाम महावीर्यः कोटिभिः पञ्चभिवृतः॥ २३ ॥ दरीमुखश्च बलवान् यथपोऽभ्याययौ तदा। वृतः कोटि सहस्रेण सुग्रीवं समुपस्थितः॥ २४ ॥ मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ । कोटिकोटिसहस्रेण वानराणा मदृश्यताम् ॥२५॥ गजश्च बलवान् वीरः कोटिभिस्तिसृभिवृतः । आजगाम महातेजाः सुग्रीवस्य समीपतः ॥ २६ ॥ ऋक्षराजो महातेजा जाम्बवान्नाम नामतः । कोटिभिर्देशभिः प्रातः सुग्रीवस्य वशे स्थितः ॥२७॥ रुमण्वान्नाम विक्रान्तो वानरो वानरेश्वरम् । आययौ बलवस्तूिर्ण कोटीशतसमानः ॥२८॥ रामानु०-सुग्रीवं समुपस्थितमिति पाठः ॥ २४ ॥ मैन्दश्चेति । अदृश्यताम् अदृश्येताम् ॥२५-२७॥ रुमणानाम विकान्तो वानरो वानरेश्वरमाययौ ॥२८--३०॥ कपिवरागमनमाह कोटीत्यादिना ॥ १४ ॥ तत इति । तारायाः पिता सुषेणः ।। १५ ॥ रुमायाः पिना ताः ॥ १६-२० ॥ महाचलेति । तिसृभिः कोटिभिरूप
For Private And Personal Use Only