________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandie
चा.रा.भ. १११०॥
स.
नीलेन पूर्व प्रेरिता इत्यर्थः । तेषामेव लक्ष्मणसन्निधाने समागमनम् । सद्यो हनुमत्प्रेरितानां तदसंभवात् । तं प्रसिद्धम् ॥ २७-३७ ॥ इति श्रीगोविन्द पाटी.कि.. राजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ ३७॥
एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः । प्रतिजग्राह तत्प्रीतस्तेषां सर्वमुपायनम् ॥३७॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥३७॥
प्रतिगृह्य च तत्सर्वमुपायनमुपाहृतम् । वानरान् सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ॥ १ ॥ विसर्जयित्वा स हरीन शूरांस्तान्कृतकर्मणः। मेने कृतार्थमात्मानं राघवं च महाबलम् ॥ २॥ स लक्ष्मणो भीमबलं सर्ववानरसत्त मम् । अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं संप्रहर्षयन् । किष्किन्धाया विनिष्काम यदि ते सौम्य रोचते ॥ ३॥ तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् । सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह ॥४॥ एवं भवतु गच्छावः स्थेयं त्वच्छासने मया ॥ ५॥ तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम् । विसर्जयामास तदा तारामन्याश्च योषितः ॥६॥ एतेत्युच्चैहरिवरान सुग्रीवः समुदाहरत् । तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः ॥ ७॥ बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः । तानुवाच ततः प्राप्तान राजाऽकसदृशप्रभः ॥ ८॥ उपस्थापयत क्षिप्रं शिविकां मम वानराः॥९॥ श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः । समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् ॥१०॥ अथ रामेण सुग्रीवसमागमोऽष्टात्रिशे-प्रतिगृह्येत्यादि । उपायनम् उपदाम् ॥ १-६॥ एतेति । एत आगच्छत ॥७-११॥
IM११०॥ सप्तम्यर्थे तृतीया ॥ ३४-३७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामाय गतत्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायो सप्तत्रिंशः सर्गः ॥२७॥ दूतागमनानन्तरं सुग्रीवः किमकार्षीदित्याह-प्रतिगृह्योति ॥ १॥२॥ स लक्ष्मण इति सार्धश्लोकमेकं वाक्यम् । अत्रेतिकरणं द्रष्टव्यम् ॥ ३-६ ॥ पत आगच्छत ॥७॥ स्त्रीदर्शनक्षमाः अन्तापुरघुवतिदर्शनयोग्याः वशीकृतेन्द्रिया इत्यर्थः। अर्कसदृशप्रभ इति च्छेदः ॥ ८॥ उपस्थापयत आनयत ॥९॥ श्रुत्वेति । शीघ्र
For Private And Personal Use Only