SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 4 तस्माद्धेतोः । तस्मात् गिरेः अननगिरेः निर्ययुः ॥ २०-२४ ॥ क्षीरोदेति । अवापतन् द्रुतमित्यनुपज्यते । सङ्ख्या न विद्यत इति । उत्तरत्र संख्या क्षीरोदवेलानिलयास्तमालवनवासिनः। नारिकेलाशनाश्चैव तेषां संख्या न विद्यते ॥२५॥ वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवा । आगच्छद्वानरी सेना पिबन्तीव दिवाकरम् ॥२६॥ ये तु त्वरयितुं याता वानराः सर्व वानरान् । ते वीरा हिमवच्छेलं ददृशुस्तं महाद्रुमम् ॥२७॥ तस्मिन् गिरिवरे रम्ये यज्ञो माहेश्वरः पुरा । सर्व देवमनस्तोषो बभौ दिव्यो मनोहरः॥२८॥ अन्ननिष्यन्दजातानि मूलानि च फलानि च। अमृतास्वादकल्पानि ददृशुस्तत्र वानराः ॥ २९ ॥ तदन्नसंभवं दिव्यं फलं मूलं मनोहरम् । यः कश्चित्सकृदनाति मासं भवति तर्पितः ॥३०॥ तानि मूलानि दिव्यानि फलानि च फलाशनाः। औषधानि च दिव्यानि जगृहुर्हरियूथपाः ॥३१॥ तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च। आनिन्युनिरा गत्वा सुग्रीवप्रियकारणात् ॥३२॥ ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् । संचोदयित्वा त्वरिता यूथानां जग्मुरग्रतः ॥ ३३ ॥ तेतु तेन मुहूर्तेन यूथपाः शीघ्रगामिनः । किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः॥३४॥ ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः।तं प्रतिग्राहयामासु वचनं चेदमब्रुवन् ॥ ३५ ॥ सर्वे परिगताः शैलाः समुद्राश्च वनानि च । पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते॥३६॥ कीर्तनं प्रधानाभिप्रायेण ॥ २५ ॥ २६॥ रामानु०-स्नेभ्यो गरेभ्यश्च सरिद्रयश्च महाजवति पाठः ॥ २६ ॥ ये विति । तुशब्दो हनुमत्प्रेरितवानरव्यावर्तकः, अननसङ्काशप्लवङ्गमाना तिस्रः कोटयः तस्माद्गिरेरचनगिरेनिर्ययुरिति योजना ॥२०-२४॥ क्षीरोदेति । अब अपतन् दुतमित्यनुषज्यते ॥२५॥२६॥ ये तुत्वरयितुं याता इत्युक्त्या एते वानराः पूर्व नीलेन प्रेषिताः, नतु हनुमता । अयं निश्चयो विशेषवाचितुशब्दश्रवणात लक्ष्मणसन्निधौ तदानीं प्रेषितानां तदानीमेवागमना सम्भवाच ॥२७॥२८॥ अन्नेति । अन्ननिष्यन्दजातानि होमद्रव्याज्यादिस्रवणाजातानि । तब यज्ञायतने ॥२९-३३॥ ते वानराकारणार्थं गता यूथपाः । तेन मुहूर्तेन । For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy