________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
इत्युक्त्वेति । हरिभिः वाहकहरिभिः॥ १२-१६ ॥ आसाद्येति । तथाऽभवन् कृताञलिपुटा अभवन् ॥ १७॥ १८॥ रामानु०-तटाकमिव तं दृष्ट्वा रामः।
तामुपस्थापितां दृष्ट्वा शिविकां वानराधिपः । लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् ॥ ११ ॥ इत्युक्ता काञ्चनं यानं सुग्रीवः मूर्यसन्निभम् । बृहद्भिहरिभिर्युक्तमारुरोह सलक्ष्मणः ॥ १२॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । शुक्कैश्च वालव्यजनै—यमानैः समन्ततः॥ १३ ॥ शङ्खमेरीनिनादैश्च हरिभिश्चाभिनन्दितः। निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् ॥ १४ ॥ स वानरशतैस्तीक्ष्णैर्बहुभिः शत्रपाणिभिः । परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ॥ १५ ॥ स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् । अवातरन्महातेजाः शिवि कायाःसलक्ष्मणः॥ १६॥ आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत् । कृताञ्जलौ स्थिते तस्मिन् वानराश्चाभवं स्तथा ॥ १७॥ तटाकमिव तद् दृष्ट्वा रामः कुड्मलपङ्कजम् । वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् ॥ १८॥ पादयोः पतितं मूर्धा तमुत्थाप्य हरीश्वरम् । प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे ॥१९॥ परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् ॥ २० ॥ तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः ॥ २१॥ धर्ममर्थं च कामं च यस्तु काले निषेवते । विभज्य सततं वीर स राजा हरिसत्तम ॥ २२ ॥ हित्वा धर्म तथाऽर्थ च कामं यस्तु निषेवते । स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ॥ २३ ॥ अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः । त्रिवर्गफलभोक्ता
तु राजा धर्मेण युज्यते ॥ २४ ॥ कुटमलपङ्कजमिति पाठः ॥ १८॥ पादयोरिति । पूर्व दूरादञ्जलिः कृतः संप्रति समीपे पादयोः पतनम् ॥ १९-२३ ॥ अमित्राणामिति । त्रिवर्गफलभोक्ता विक्रमाः सत्वरपादविन्यासाः, राज्ञां कालविलम्बस्थासहिष्णुत्वादिति भावः ॥ १० ॥ ११ ॥ हरिभिः बाहकैः । युक्तम् अवलम्बितम् ॥ १२-१४ ॥ स इति ।। परिकीर्णः परिवेष्टितः ॥ १५॥१६॥ आसाद्योति । तथा अभवन् कृतात्रलिपुटा अभवन् ॥ १७-२३ ॥ अमित्राणामिति । प्रिवर्गफलभोक्ता धर्मार्थकामफलाधिष्ठाता
For Private And Personal Use Only