________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
Mतं च स्त्रीजनं जानामीति योजना ॥ ५३॥ लक्ष्मणसंरम्भोपशमनाय स्वप्रागल्भ्येन लोकस्थिति दर्शयति-न कामतन्त्रे इत्यादिना । वं यथा येन प्रकारेण । मन्युवशं प्रपन्नः तेन प्रकारेण । कामतन्त्रे रतिक्रीडादौ । तव बुद्धिनास्ति । कामतन्त्राभिज्ञश्चत्तादृशं न द्विष्या इति भावः । किं कामतन्त्र प्रवणः किमपि न जानातीत्यत्राह-न देशकालाविति ॥५४॥ तमिति । मम सनिकृष्टं समीपस्थम् । अत एव कामवृत्तं कामव्यापारमिति क्रमेण योजना
न कामतन्त्रे तव बुद्धिरस्ति त्वं वै यथा मन्युवशं प्रपन्नः। न देशकालौ हि न चार्थधर्मावपेक्षते कामरतिर्मनुष्यः ॥५४॥ तं कामवृत्तं मम सन्निकृष्ट कामाभियोगाच्च निवृत्तलज्जम् । क्षमस्व तावत्परवीरहन्तस्त्वद्भातरं वानर वंशनाथम् ॥५५॥ महर्षयो धर्मतपोभिकामाः कामानुकामाः प्रतिबद्धमोहाः । अयं प्रकृत्या चपलः कपिस्तु कथं न सज्जेत सुखेषु राजा ॥५६॥ इत्येवमुक्त्वा वचनं महार्थं सा वानरी लक्ष्मणमप्रमेयम् । पुनः सखेलं मद विह्वलं च भतुहितं वाक्यमिदं बभाषे ॥ ५७ ॥ उद्योगस्तु चिराज्ञप्तः सुग्रीवेण नरोत्तम । कामस्यापि विधयेन
तवार्थप्रतिसाधने ॥५८॥ आगता हि महावीर्या हरयः कामरूपिणः । कोटीशतसहस्राणि नानानगनिवासिनः॥५९॥ ॥५५॥ महर्पयोपि कामवशाः, किमुत पृथग्जन इत्याह-महर्षय इति । धर्मतपसी अभिकामयन्त इति धर्मतपोभिकामाः । कामस्याभिलापस्य अनु पश्चात् कामो येषां ते कामानुकामाः । प्रतिबद्धमोहाः नियतस्त्रीव्यामोहाः ॥५६॥ इतीति । सलेलं सलीलम् ॥५७-५९ ॥ रामानु०-इत्येवमिति । पुनः सखेलमिति हे नरश्रेष्ठ ! शरीरजस्य कामस्य बलं यथा अविषां तच्चापि जानामि । अद्य सुग्रीवं यस्मिन जने कामेन असक्तमनवरतमवबद्धं जानामि । तं स्त्रीजनं जानामीति योजना । कामेन असक्तं सुग्रीवम् अद्य यस्मिन जने अवबद्धं जानामीति वा योजना ।। ५३॥ लक्ष्मणसंरम्भोपशमार्थ स्वप्रागल्भ्येन सखेलोक्तिमाह-न कामतन्त्र इत्यादि । त्वं यथा येन प्रकारेण मन्युवशं प्रपन्नः तेन प्रकारेण ममैव कामतन्त्र जलक्रीडादो तव बुद्धिर्नास्ति । कामतन्त्राभिज्ञश्चत्तादृशं न द्वेष्टीति भावः कामतन्त्रप्रवणः किमपि न जानातीत्याह न देशकालाविति ॥ ५४ ॥ ५५ ॥ किश्च विशेषतो राज्ञः कामासक्तिर्नाश्चर्यकारिणीत्यभिप्रायेणाह-महर्षय इति ।
काममनुसृत्य कामयन्त इति कामानुकामाः ॥५६॥५७ ॥ उद्योग इति । अर्थप्रतिसाधने कार्यसाधनविषये ॥ ५८ ॥ ५९ ॥ II स० कामवृत्तं खेरछाचारिणम् । अत एव मम सनिकृष्ट मच्छयासक्तम् त्वद्रातरं सखित्वात । एतादृशं सुप्रीवमुद्दिश्य क्षमस्व ॥ १५ ॥
For Private And Personal Use Only