SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandir संचचाल वरासनात् लागूलचालनमाल्यच्छेदनादिकापेयव्यापारानकरोदित्यर्थः ॥२७-२९॥ तत इति । अव्यग्रः, कार्याश इति शेषः॥ ३०-३५॥ त्वयेति । त्वया सान्त्वैः प्रसन्नेन्द्रियमानसमिति संवन्धः । उपकान्तम् उपागतम् ॥ ३६॥ सेति । सा कान्तसंश्लेपं विनापि रमणीयगमनसौन्दर्या । प्रस्ख अङ्गदेन यथा मां पुरस्तात्प्रतिवेदितम् । सुव्यक्तमेष संप्राप्तः सौमित्रितृवत्सलः ॥२८॥ अङ्गदेन समाख्यातं ज्यास्वनेन च वानरः । बुबुधे लक्ष्मणं प्राप्तं मुखं चास्य व्यशुष्यत ॥ २९ ॥ ततस्तार हरिश्रेष्ठः सुग्रीवः प्रियदर्श नाम् । उवाच हितमव्यग्रस्वाससम्भ्रान्तमानसः ॥३०॥ किंनु तत्कारणं सुभ्र प्रकृत्या मृदुमानसः । सरोष इव सम्प्राप्तो येनायं राघवानुजः ॥ ३१ ॥ किं पश्यसि कुमारस्य रोषस्थानमनिन्दिते । न खल्वकारणे कोपमाहरेन्नर सत्तमः ॥३२॥ यदस्य कृतमस्माभिर्बुध्यसे किंचिदप्रियम् । तद् बुद्धया संप्रधाशु क्षिप्रमर्हसि भाषितुम् ॥३३॥ अथवा स्वयमेवैनं द्रष्टुमर्हसि भाषितुम् । वचनैः सान्त्वयुक्तैश्च प्रसादयितुमर्हसि ॥ ३४ ॥ त्वद्दर्शनविशुद्धात्मा नस कोपं करिष्यति । नहि स्त्रीषु महात्मानः क्वचित्कुंवन्ति दारुणम् ॥ ३५॥ त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रिय मानसम् । ततः कमलपत्त्राक्षं द्रक्ष्याम्यहमरिन्दमम् ॥ ३६ ॥ सा प्रस्खलन्ती मदविह्वलाक्षी प्रलम्बकाञ्चीगुण हेमसूत्रा । सलक्षणा लक्ष्मणसन्निधानं जगाम तारा नमिताङ्गयष्टिः ॥ ३७ ॥ लन्ती संश्लेषकृतायासेन पदे पदं कृत्वा गच्छन्ती । मदविह्वलाक्षी भोगसंवर्धकमधुपानमदेन विह्वलनेत्रा । प्रलम्बे काचीगुणहेमसूत्रे यस्याः सा प्रलम्ब काञ्चीगुणहेमसूत्रा, ईपच्छिथिलदुकूलतया शयने यथा स्थिता तथैव समागतेत्यर्थः। सलक्षणा व्यक्तैः संभोगलक्षणेः समागता । लक्ष्मणसन्निधानं जगाम । चारित्रेणापकृष्टःसच्चरित्रयुक्ततया परस्त्रीदर्शनेन स्त्रीनपुर शब्दश्रवणेन च लज्जया उदासीनस्सन् एकान्ते स्थितवानिति भावः ॥ २६-३१॥ किमिति । कुमारस्य लक्ष्मणस्य । रोषस्थानं रोपनिमित्तम् ॥ ३२ ॥ भाषितुमईसि मह्यं वकुमर्हसीत्यर्थः ॥ ३३ ॥ ३४ ॥ दारुण क्रूरकर्म, स्त्रीणां कोपालक्ष्यत्वादिति भावः ॥ ३५ ॥ सान्त्वैः प्रियवाक्यैः । प्रसन्नेन्द्रियमानसं तत उपक्रान्तम उपागतम् द्रक्ष्यामीति सम्बन्धः ॥ ३६ ॥ सति । " अथवा स्वयमेवेनं द्रष्टुमर्हसि भामिनि " इति For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy