________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
II
टी.कि.को.
ISM
S
बा.रा.म.निर्वाहः । यद्वा वानरेन्द्रगृहं वानरेन्द्रयोः ऋक्षरजोवालिनोः गृहभूतम् इदानीं सुग्रीवस्य गृहं प्रविवेशेति संबन्धः॥ १३-१९॥ प्रविशन्नेवेति । सः लक्ष्मणः।
ततं वीणादिवाद्यजातम् । मधुरस्वरं मधुरश्रुतियुक्तम् । तन्त्रीशब्देन तन्त्रीवनिर्लक्ष्यते । तद्रूपैर्गीतैः समाकीर्णम् । समगीतपदाक्षरं समतया तन्त्री हैमराजतपर्यद्धैर्बहुभिश्च वरासनैः । महास्तिरणोपेतैस्तत्र तत्रोपशोभितम् ॥ १९॥ प्रविशन्नेव सततं शुश्राव मधुर स्वरम् । तन्त्रीगीतसमाकीर्ण समगीतपदाक्षरम् ॥ २०॥ बह्वीश्च विविधाकारा रूपयौवनगर्विताः । स्त्रियः सुग्रीव भवने ददर्श स महाबलः॥२१॥ दृष्ट्वाभजनसंपन्नाश्चित्रमाल्यकृतस्रजः। फलमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः ॥२२॥ नातृप्तानापि चाव्यग्रानानुदात्तपरिच्छदान् । सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः ॥ २३ ॥ कूजितं नूपुराणां च काञ्चीनां निनदं तथा। सनिशम्य ततः श्रीमान सौमित्रिर्लज्जितोऽभवत् ॥ २४ ॥ रोषवेगप्रकुपितः श्रुत्वा चाभरणस्वनम् । चकार ज्यास्वनं वीरो दिशः शब्देन पूरयन् ॥ २५ ॥ चारित्रेण महाबाहुरपकृष्टः स लक्ष्मणः । तस्थावेकान्तमाश्रित्य रामशोकसमन्वितः ॥ २६ ॥ तेन चापस्वनेनाथ सुग्रीवः प्लवगाधिपः। विज्ञाया
गमनं त्रस्तः संचचाल वरासनात् ॥ २७ ॥ गीतसमतया गीतानि कण्ठेगीतानि पदान्यक्षराणि च यस्य । यद्रा समानि अन्यूनातिरिक्तानि गीतसंबन्धीनि पदान्यक्षराणि च यस्य ॥२०॥ २१ ॥ दृष्ट्वेति । फलमाल्यकृतव्ययाः फलमाल्यार्थ व्यग्रा इत्यर्थः । नानुदात्तपरिच्छदान् उत्कृष्टवस्त्राभरणादिकान् ॥ २२ ॥ २३ ॥ कूजितमिति । लजितोऽभवत्, उपरिसुरतद्योतकत्वादिति भावः॥२४ ॥ रोषेति । रोषवेगप्रकुपितः रोषप्रवृद्धः। प्रकोपशब्दो ह्यभिवृद्धवाची ॥ २५ ॥ चारित्रेणेति ।
रामशोकसमन्वितः रामविषयशोकसमन्वितः। एकान्तं स्त्रीप्रसङ्गरहितप्रदेशम् ॥ २६ ॥ तेनेति । सौमित्रिः संप्राप्त इत्यागमनं विज्ञायेति संबन्धः पविशन्विति । तन्त्रीशब्देन ध्वनिर्लक्ष्यते ॥ २० ॥२१॥ फलमाल्यकृतव्यमाः फलमाल्यार्थ व्यग्रा इत्यर्थः ॥ २२ ॥ नानुदात्तपरिच्छदान नानुत्कृष्टवस्त्राभरणादि
कान् ॥ २३ ॥ लज्जितोऽभवत्, अन्तःपुरदर्शनादिति भावः ॥ २४ ॥ रोषवेगप्रकुपितः रोषवेगेन प्रवृद्धः ॥ २५ ॥ रामकोपसमन्विता, बुद्धिस्थरामकोप इत्यर्थः।
SSS
॥१०॥
For Private And Personal Use Only