________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
www.kobatirth.org
पद्मानाम् आलेपविशेषाणाम् ॥५॥६॥ ददौति । गिरिनद्यः गिरिनदीः । व्यत्ययेन द्वितीया ॥७॥ अङ्गदस्येत्यादि । महासाराणि अतिदृढानि ८-१२॥
चन्दनागरुपद्मानां गन्धैः सुरभिगन्धिनाम् । मेरेयाणां मधूनां च संमोदितमहापथाम् । ददर्श गिरिनद्यश्च । विमलास्तत्र राघवः ॥७॥ अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च । गवयस्य गवाक्षस्य गजस्य शरभस्य च॥ ८॥ विद्युन्मालेश्च सम्पातेः सूर्याक्षस्य हनूमतः । वीरवाहोः सुबाहोश्च नलस्य च महात्मनः ॥९॥ कुमु दस्य सुषेणस्य तारजाम्बवतोस्तथा। दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः ॥ १०॥ एतेषां कपिमुख्यानां राजमार्ग महात्मनाम् । ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः ॥११ ॥ पाण्डुराभ्रप्रकाशानि दिव्यमाल्य युतानि च । प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च ॥ १२ ॥ पाण्डुरेण तु सालेन परिक्षिप्तं दुरासदम् । वानरेन्द्र गृह रम्यं महेन्द्रसदनोपमम् ॥ १३ ॥ शुक्लैः प्रासादशिखरैः कैलासशिखरोपमैः । सर्वकामफलवृक्षः पुष्पितै रुपशोभितम् ॥ १४॥ महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसन्निभैः । दिव्यपुष्पफलैवृक्षः शीतच्छायैमनोरमैः ॥ १५॥ हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः । दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम् ॥ १६ ॥ सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः । अवार्यमाणः सौमित्रिमहाभ्रमिव भास्करः ॥१७॥ स सप्त कक्ष्या धर्मात्मा नाना
जनसमाकुलाः ! प्रविश्य सुमहद गुप्तं ददन्तिःपुरं महत ॥ १८॥ पाण्डुरेण सालेन सुधाधवलितप्राकारेण । दिव्यपुष्पफलेवृक्षरित्यनेन इन्द्रदत्ताः स्वगीया वृक्षा उच्यन्ते । पूर्वमुक्ता वृक्षा भौमा इत्यवगन्तव्यम् । पूर्व। 'वानरेन्द्रगृहं रम्यम् ' इत्युक्तस्यानेकविशेषणव्यवधानेन सुग्रीवस्य गृहं रम्बमिति पुनर्वचनम्, स्वरूपतो रम्यम् उक्तविशेषणेश्च रम्पमिति रम्यपदद्वय चन्दनेति । अब पद्मशब्द आलेपनद्रव्यविशेषवाची । मैरेयाणा मिरादेशजातानाम् ॥ गिरिनयः गिरिभ्यः प्रमृता नदीरित्यर्थः ॥७-१२॥ पाण्डुरेणेति । पाण्डुरेण
लेन परिक्षिप्तं स्फटिकशिलामयवमेण परिवेष्टितम् ॥ १३ ॥ सर्वेति । अत्रत्यक्षशब्दो भौमवृक्षवाची । उपरि दिग्यपुष्पफलैरिति दिव्यवृक्षाभिधानात ॥१५-१७ ॥ कक्ष्याःद्वाराङ्गणभूमयः ॥१८॥ १९ ॥
For Private And Personal Use Only