________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
प्रा.रा.भू.
टी.कि.का.
रिप
-
-
-
-
-
वानरराज्यलक्ष्मी न भोक्ष्यत । तथा ह्यस्य बुद्धिः नाभिक्रमते अस्मत्प्रयोजनाभिमुख्येन न वर्तत इति योजना ॥२॥मतीति। मतिभ्रमात् बुद्धिविपर्यासात्। तव प्रसादाप्रतिकारबुद्धिः प्रसादस्य राज्यप्रदानादिरूपस्य अप्रतिकारबुद्धिःप्रत्युपकारबुद्धिरहितः । अत एव हतः सुग्रीवः अग्रज वालिनं पश्यतु । एवं विगुणस्य तस्य राज्यं न देयम् । वालिनमिति क्वचित्पाठः । तत्र वृत्तमुपजातिः॥३॥रामानु०-मातक्षयादिति । हतोग्रजं पश्यतु वीर वालिनमित्यत्र वृत्तभङ्ग आर्षः ॥३॥
मतिक्षयादाम्यसुखेषु सक्तस्तव प्रसादाप्रतिकारबुद्धिः। हतोऽग्रजपश्यतु वीर तस्य न राज्यमेवं विगुणस्य देयम ॥३॥ न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य । हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपल्या विचयं करोतु ॥ ४॥ तमात्तबाणासनमुत्पतन्तं निवेदितार्थ रणचण्डकोपम्। उवाच रामः परवीरहन्ता स्ववेक्षिवं सानुनयं च वाक्यम् ॥५॥ न हि वै त्वद्विधो लोके पापमेवं समाचरेत्। पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः ॥६॥ नेदमद्य त्वया ग्राह्य साधुवृत्तेन लक्ष्मण । तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च सङ्गतम् ॥७ ॥ सामोपहितया वाचा
रूक्षाणि परिवर्जयन । वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये ॥८॥ नेति ।नधारये अकार्यकरणं कर्तुं न क्षम इत्यर्थः । असत्यं सत्यवचनरहितम् । नरेन्द्रपन्याः सीतायाः। विचयम् अन्वेषणम् ॥ ४॥ मम अहृदयवचन मात्रेण अयं तं हन्यादेवेत्यनुतप्तो रामः प्राह स्म । परवीरहन्ता, नतु स्वाश्रितहन्ता । स्ववेक्षितं सुत्रु निरूपितम् ॥५॥रामानु"-सानुनयं सप्रसादम ॥५॥ न हीति । पापं मित्रहननाध्यवसायरूपम् । आर्येण सम्यग्विवेकेन ॥ ६ ॥ इदं मित्रहननाध्यवसायरूपं पापम् । पूर्ववृत्तं च सङ्गतं पूर्वकृतं सख्यरूपं बान्धवं च ॥ ७॥ सामेति । कालपर्यये कालक्रमे विषये । व्यतीतं व्यतिक्रान्तवन्तम् सुग्रीवम् । रूक्षाणि परुपाणि । परिवर्जयन् । सामोपहितया लक्ष्मी बालिराज्यलक्ष्मीम् ॥२॥ एतदेव विशदयति-मतीति । तव प्रसादे उपकारे विषये । अपतिकारबुद्धिः प्रत्युपकारबुद्धिरहितः ॥ ३॥ विचयम् अन्वेषणम ॥४॥ रामो लक्ष्मणाभिप्राय विज्ञाय चतुर्थोपायनिवारणपूर्वकं सानुनयमाह-तभिति । निवेदितार्थ ज्ञापितप्रयोजनम् । स्ववेक्षितं मुष्ठ निरूपितम् ॥५॥ नहीति। पापं मित्रहननाध्यवसायरूपम् । आर्येण सम्यग्विवेकेन । यो हन्ति निवारयति ॥ ६॥ इदं मित्रहननाध्यवसायरूपम् । साधुवृत्तेन साधुत्वेन पूर्ववृत्तं च सङ्गतं पूर्व कृतसख्यरूपबान्धवं च॥७॥ सामेति । व्यतीतं व्यतिक्रान्तवन्तम । कालपर्यये कालक्रमविषये । व्यतीतं कालपर्ययम् इति च पाठः । रुक्षाणि परुषवचनानि ॥८॥
॥२६॥
For Private And Personal Use Only