________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सान्त्वयुक्तया वाचा वक्तुमर्हसि ॥८॥९॥ तत इति । प्रतिसंरब्धः प्रतिनिवृत्तहननाद्धयवसायः ॥ १० ॥ सोऽग्रजेनेत्यादिश्योकद्वयोक्तं विस्तरणाहHशकेत्यादिना । पनुः प्रगृह्य सानुमान् पर्वत इव स्थितः। ११॥ यथोक्तेति । यथोक्तं रामोक्तमनतिक्रम्य करोतीति यथोक्तकारी लक्ष्मणः । वचनं । सुग्रीवं प्रति स्वेन वक्तव्यं वचनम् । यथोक्तकारीति विशेषणा पोपदिष्टं वचनमिति सिद्धम् । उत्तरं च स्ववचनस्य सुग्रीवेण वक्ष्यमाणमुत्तरं च । सोत्तरं ५
सोऽग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः। प्रविवेश पुरी वीरोलक्ष्मणः परवीरहा ॥९॥ ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः। लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपः॥ १०॥ शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः । प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव ॥ ११॥ यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् । बृहस्पतिसमो बुद्धया मत्वा रामानुजस्तथा ॥१२॥ कामक्रोधसमुत्येन भ्रातुः कोपानिनावृतः। प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा ॥ १३ ॥ सालतालाश्वकर्णाश्च तरसा पातयन बहून् । पर्यस्यन् गिरिकूटानि दुमानन्यांश्च वेगतः ॥१४॥ शिलाश्च शकलीकुर्वन पद्भ्यां गज इवाशुगः । दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद द्रुतम् ॥ १५॥ तामपश्यद्वलाकीर्णा हरि राजमहापुरीम् । दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसङ्कटे ॥ १६॥ रोषात् प्रस्फुरमाणोष्ठः सुग्रीवं प्रति
लक्ष्मणः। ददर्श वानरान भीमान किष्किन्धाया बहिश्वरान् ॥ १७॥ स्वेन वक्ष्यमाणोत्तरसहितं मत्वा आलोच्य प्रययाविति संबन्धः। दूरमिति । एकपदं पौरस्त्यपदं दूरं त्यक्त्वा दूरे क्षिप्त्वा । अनेन द्रुतगमनं सूचितम् ।। द्रुतं गच्छन् हि पुरुपः पुरः पादं दूरे क्षिपति ॥ १२-१५॥ तामिति । गिरिसङ्कटे निबिडगिरिमध्ये । अनेन पूर्वोक्तगुहाशब्दो विवृतः ॥ १६ ॥ १७ ॥ सोऽप्रजेनेत्यादि श्लोकद्वयं वक्ष्यमाणस्य संग्रहः ॥९॥ तत इति । प्रतिसंरब्धः प्रतिनिवृत्तहननाध्यवसाय इत्यर्थः ॥१०॥ मन्दरो मन्दरारूपः सानुमान् पर्वत इव ॥ ११॥ यथोक्तकारीति । वचनं सुग्रीवं मति स्वेन वक्तव्यं वचनम् । यथोक्तकारीति वचनादिदं वचनं रामोपदिष्टमिति मन्तव्यम् । उत्तरं स्वपचनस्य सुग्रीवेण वक्ष्यमाणमुत्तरं सोत्तरं स्वेन वक्ष्यमाणेनोत्तरेण सहितं मत्वा आलोच्य ॥ १२॥ प्रभञ्जन इव वायुरिव ॥ १३ ॥ पर्पस्यन् क्षिपन् ॥ १४ ॥ दूरमेकपदं त्यक्त्वा एकपदं पाश्चात्त्यं पादं परं यथा तथा त्यक्त्वा, अनेन पौरस्त्यपादस्य दूरनिक्षेपम्सचितः॥१५-२६ ॥
For Private And Personal Use Only