________________
Shri Mahavir Jan Aradhana Kendra
www.kobalth.org
Acharya Shri Kalassagarsun Gyanmandir
कार्य एवं विहित एवमवास्थितेसति यद्धितं तद् हि । कालव्यतिक्रमः, मा भूदिति शेषः । अतः त्वर त्वरस्वति संवन्धः॥ ८३ ॥ उक्तमर्थ पुनः संक्षेपेण सर्गान्ते दर्शयति-कुरुष्वेति । मयि विषये प्रतिश्रुतं सत्यं कुरु । शाश्वतं धर्ममवेक्ष्य प्रतिश्रुतकरणम् अक्षयो धर्म इत्यवेक्ष्य ॥८॥ स इति । सालक्ष्मणः। हरीश्वरे सुग्रीवे । तीबा मतिम् निग्रहबुद्धिमित्यर्थः । लालप्यमानं प्रलपन्तम् ॥ ८५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिंशः सर्गः ॥ ३० ॥ अथाङ्गदेन लक्ष्मणकोपकथनं सुग्रीवायकत्रिंशे-स कामिनमिति । कामिनम् अधिक कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् । मा वालिनं प्रेत्य गतो यमक्षयं त्वमद्य पश्येमम चोदितैः शरैः॥८४॥स पूर्वजं तीवविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम् । चकार तीवां मतिमुग्रतेजा हरीश्वरे मानववंशनाथः॥८५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिंशः सर्गः॥३०॥
स कामिनं दीनमदीनसत्त्वं शोकाभिपन्न समुदीर्णकोपम् । नरेन्द्रसूनुर्नरदेवपुत्र रामानुजः पूर्वजमित्युवाच॥१॥ जवानरःस्थास्यति साधुवृत्तेन मंस्यते कर्मफलानुषङ्गान् । न भोक्ष्यते वानरराज्यलक्ष्मी तथाहिनाभिकमतेऽस्य बुद्धिः । कामम् । अत एव दीनम् । तथाप्यदीनसत्त्वम् । एतेन वस्तुतः अदीनसत्त्वोपि दैन्यं भावयतीति गम्यते । शोकाभिपन्नं शोक प्राप्तम् । समुदीर्णकोपम् अभिवृद्धकोपम् । अस्मिन् श्लोके नरदेवपुत्रमित्यत्र देकारो गायत्र्या एकादशाक्षरम् । दशसहस्रलोका गताः॥३॥नेति । साधुवृत्ते साधूनां मित्रसमान सुखदुःखाना सुहृदांवृत्ते आचारे न स्थास्यति । कर्मफलानुपङ्गान् अनिसाक्षिकसरूषरूपकर्मगा वालिनिरसनराज्यदारलाभरूपफलानुबन्धान् नमस्यते। मा भूदिति शेषः । अतस्त्वरेति सम्बन्धः ॥८३॥ कुरुष्वेत्याापन्यासः सङ्कहेण सुग्रीवहितप्रदर्शनार्थम् ॥ ८४ ॥ तीवो मति जिघांसामित्यर्थः ॥८५॥ इति श्रीमहे श्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायां विंशः सर्गः ॥ ३० ॥ स कामिनमिति । गायच्याः दे इत्येकादशाक्षरं स कामिनं दीनमित्यस्य श्लोकस्य त्रिंशाक्षरेण दे इत्यनेन संग्रहाति। दीनं वेवादियुक्तम् ॥ १॥ स वानर इति । साधुवृत्ते साधूनो मित्रतमानसुखदुःखाना मुहृदा वृत्ते न स्थास्यति । कर्मफलानुषङ्गात अनिसाक्षिकसख्यरूपकर्मणा प्राप्तवालिनिरसनराज्यदाररू सफलानुबन्धाद्धेतोः न मंस्पते, अस्मानिति शेषः । वानरराज्यलक्ष्मी न भोक्ष्यते तथा हिः अस्य बुद्धिनामिक्रमते, अस्मत्प्रयोजनाभिमुरुपेन न वर्तत इति योज।। स्वानुपेक्ष्य एतत्सर्वमनुमषितुं नाहतीति भावः । वानरराज्य
For Private And Personal Use Only