________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ. ॥९
स.३०
इत्थमप्रतिद्दत पराकमे कामं परिज्ञात सत्यपि अस्य सुग्रीवस्य चिन्ता समयव्यतिकमे मामपि हनिष्यतीति विचारः न स्यात्, नाभूदित्यर्थः टी.कि.को. ॥ ७६ ॥ यदर्थमिति । अयमारम्भः सख्यकरणवालिनिरसनरूपः । यदर्थ यस्मै सीतान्वषणप्रयोजनाय कृतः । समयं तद्विषयसङ्केतम् । प्लवगेश्वरो । नाभिजानातीति संबन्धः ॥७७॥ वर्षेति। वर्षासमयकालम् वर्षा एव समयकालः सङ्केतकालः तम् । वर्षाशब्देन चत्वारो मासा उपलक्ष्यन्ते ॥७८॥
यदर्थमयमारम्भः कृतः परपुरञ्जय । समयं नाभिजानाति कृतार्थः प्लवगेश्वरः ॥७७॥ वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः । व्यतीताश्चतुरो मासान विहरनावबुध्यते ॥७८॥ सामात्यपरिषत् क्रीडन् पानमेवोपसेवते। शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् ॥ ७९ ॥ उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल । मम रोषस्य यदूपं ब्रूयाश्चैन मिदं वचः॥८॥ न च संकुचितः पन्था येन वाली हतो गतः। समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥८१॥ एक एव रणेवाली शरेण निहतो मया। त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम् ॥ ८२॥ तदेवं विहिते
कार्ये यद्धितं पुरुषर्षभ । तत्तद ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः॥८३॥ सामात्यपरिषत् सामात्यवान्धवः॥७९॥उच्यतामिति । मम रोषस्य यद्रूपं तत्सुग्रीव उच्यताम् । एनमिदं वक्ष्यमाणं वश्च ब्याः॥८॥न चेति। हतो वाली येन पथा गतः स पन्थाः, परलोक इत्यर्थः । न संकुचितः न नष्ट इत्यर्थः । समये मर्यादायां तिष्ठ । वालिपथं वालिगतं मार्गम् ॥८॥८२॥ तदेवमिति ।। इत्यमप्रतिहते पराक्रमे कामं परिज्ञाते सत्यपि अस्य सुग्रीवस्य चिन्ता न स्यात् समयष्यतिक्रमपि हनिष्यतीति विचारो नाभूदित्यर्थः । यद्वा सुग्रीवव्यामोहाति शयं प्रति विस्मयवचनमेतत् । पर्व गते त्वत्सहायस्य मे पराक्रमे कामं परिज्ञातेपि अस्य सुग्रीवस्य चिन्ता मयि बुद्धिर्न स्यात् न भवेत, अहो विस्मय इत्यर्थः । ॥७६ ॥ यदर्थमिति । अयमारम्भः सख्यकरणवालिनिरसनरूपः यदर्थ यस्मै सीतान्वेषणप्रयोजनाय कृतः । समयं तद्विषयसङ्केतं प्लवगेश्वरो नाभिजानातीति सम्बन्धः ॥ ७॥ वर्ष तु वर्षाकालमेव समयकाल प्रतिज्ञाय अवस्थाय, सङ्केतकालं प्रतिज्ञायेत्ययः । ७८ ॥ सामात्येति । पीयत इति पानम् मद्यम् ॥ ७९ ॥ मम रोषस्य यदपं तत्सुग्रीवस्पोच्यताम् इदं वक्ष्यमाणं वचन या इति सम्बन्धः ॥ ८०-८२ ॥ कार्य लिहिते एवमवस्थिते सति पद्धितं तत बहि। कालव्यतिक्रमोN
९५॥
For Private And Personal Use Only