________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
स०३०
ब.रा.भ. सारसेति । सारसारखसन्नादेः सारसारवोत्थितध्वनिभिः ॥७॥ पुष्पितानिति । पश्यन्ती मदिक्षया इतस्ततो टि निक्षिपन्ती ॥८॥९॥ निःस्वनमिति। Roपुण्डरीकविशालाक्षी चक्रवाकनिनदश्रवणस्यासह्यतया नायकागमपथं सलीलमवलोकयन्तीत्यर्थः । कयं भविष्यति ? कथं सत्तां धारयिष्यतीत्यर्थः॥१०॥
वापीः कृत्रिमसरांसि । काननानि महावनानि ॥ ११॥ अपि तामिति । शरद्गुणनिरन्तरः शरद्गुणैः साधनैः निरन्तरः पूर्णः कामः । सौकुमार्यात
सारसारवसनादैः सारसारवनादिनी । याऽऽश्रमे रमते बाला साऽद्य मे रमते कथम् ॥७॥ पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान् । कथं सारमते बाला पश्यन्ती मामपश्यती॥८॥ या पुरा कलहंसानां स्वरेण कलभाषिणी। बुध्यते चारुसर्वाङ्गी साऽद्य मे बुध्यते कथम् ॥ ९॥ निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् । पुण्डरीक विशालाक्षी कथमेषा भविष्यति ॥ १०॥ सरांसि सरितो वापीः काननानि वनानिचीता विना मृगशावाक्षी चर नाद्य सुखं लभे ॥ ११॥ अपि तो मद्वियोगाच्च सौकुमार्याच्च भामिनीम् । न दूरं पीडयेत्कामः शरद्गुणनिरन्तरः ॥ १२॥ एवमादि नरश्रेष्ठो विललाप नृपात्मजः। विहङ्ग इव सारङ्गः सलिलं त्रिदशेश्वरात् ॥ १३ ॥ ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु । ददर्श पर्युपावृत्तो लक्ष्मीवॉल्लक्ष्मणोऽग्रजम् ॥ १४ ॥ तं चिन्तया दुस्सहया परीतं विसंज्ञमेकं विजने मनस्वी । भ्रातुर्विषादात्परितापदीनः समीक्ष्य सौमित्रिरुवाच रामम् ॥ १५॥ मद्वियोगाच्च हेतोः । ता भामिनीम् । दूरम् आमरणम् । न पीडयेत्। अपिः सम्भावनायाम् । पीडयेदेवेत्यर्थः ॥ १२ ॥ एवमादीति । त्रिदशेश्वरात्र सलिलमुद्दिश्य सारङ्गश्चातक इव विललापेति सम्बन्धः ॥ १३ ॥ तत इति । चभूर्य कुटिलं चरित्वा । फलाभिलापेण कुटिलमार्गेण चरित्वा सारसेति । सारसारवसन्नादैः सारसारवोत्थितध्वनिभिः । या मे वाला आश्रमे रमते अरमत सा अद्य रक्षोवशं प्राप्ता कथं रमते ॥ ७॥ पुष्पितानिति । पश्यन्ती मदिक्षया इतस्ततः दृष्टिं विक्षिपन्ती ॥८-१०॥ सरांसीति । काननानि लतावृतगुल्मप्रदेशान ॥ ११ ॥ शरदगुणनिरन्ताः शरद्गुणैस्साधनः निरन्तरः पूर्णः कामः सौकुमार्यान्मद्विरहाच हेतोः । ता भामिनीम् । दूरम् आमरणं च न पीडयेदपि । अपिः पदार्थसम्भावनायाम, पीडयेदेवेत्यर्थः ॥ १२ ॥ त्रिदिवेश्वरात सलिलमुद्दिश्य सारङ्ग इव चातक इव विललापेति सम्बन्धः ॥ १३ ॥ तत इति । चधूर्य कुटिलं चरित्वा, फलाभिलाषेण कुटिलमार्गेषु चरित्वेत्यर्थः ॥ १४ ॥ १५ ॥
॥९॥
Tul
For Private And Personal Use Only