________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दि वानरः इति पाठे पञ्चदशरात्रादर्वागेव आगन्तव्यमिति भावः ॥ ३२ ॥ वृद्धान् जाम्बवत्प्रभृतीन् ॥ ३४ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहारा ख्याने किष्किन्धाकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९ ॥ अथ शरत्समागमेऽपि सुग्रीवस्यानुद्योगाद्रामको पस्त्रिशे-गुहामित्यादि । सुग्रीवे गुड़ा प्रविष्टे वर्षरात्रोषितो रामः कामशोकाभिपीडितः सन् । क्रमेण गगने घनैर्विमुक्ते । पाण्डरं निर्मलम् । गगनं दृष्ट्वा परमातुरः वर्षाकालिकशोकादधिकं हरीश्च वृद्धानुपयातु साङ्गदो भवान्ममाज्ञामधिकृत्य निश्चिताम् । इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रवि वेश वीर्यवान् ॥ ३४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥ गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः । वर्षरात्रोषितो रामः कामशोकाभिपीडितः ॥ १ ॥ पाण्डरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् । शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ॥ २ ॥ कामवृत्तं च सुग्रीवं नष्टां च जनकात्म जाम्। बुद्धा कालमतीतं च मुमोह परमातुरः ॥ ३ ॥ स तु संज्ञामुपागम्य मुहूर्तान्मतिमान् पुनः । मनस्स्थामपि वैदेहीं चिन्तयामास राघवः ॥ ४ ॥ आसीनः पर्वतस्याग्रे हेमधातुविभूषिते । शारदं गगनं दृष्ट्वा जगाम प प्रियाम् ॥ ५ ॥ दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम्। सारसारवसंघुष्टं विललापार्तया गिरा ॥ ६ ॥
शोकं प्राप्तः सन् मुमोह । एतावत्पर्यन्तं कस्यचिदवधेर्विद्यमानतया कथंचिद्धृतवान् । सम्प्रति तदभावान्मुमोहेत्यर्थः ॥ १-३ ॥ स त्विति । मनःस्था मपि वैदेहीं चिन्तयामास पुनः पुनर्विशेषतश्चिन्तितवानित्यर्थः ॥ ४ ॥ रामानु० स त्विति । मुहूर्तान्मतिमान् पुनरिति सम्यक् । मनःस्थामपि वैदेहीं चिन्त यामास चिन्त्यमानामपि वैदेहीं विशेषतश्चिन्तयामासेत्यर्थः । अस्माच्छोकात्परतः आसीनः पर्वतस्याग्र इति श्लोकः । अस्माञ्च परतः दृष्ट्वा च विमलं व्योमेति श्लोकः । व्यत्यासस्तु लेखक प्रमादकृतः ॥ ४ ॥ आसीन इति । मनसा जगाम चिन्तयामासेति यावत् ॥ ५ ॥ दृष्ट्वा न विमलमिति । गिरा स्वरेण ॥ ६ ॥
वागन्तव्यमिति भावः । त्रिरावृत्तानां पञ्चानां रात्रीणां समाहारस्त्रिपञ्चरात्रः ॥ ३३ ॥ ३४ ॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्व० किष्किन्धाकाण्डव्याख्याया (नेकोनत्रिंशः सर्गः ॥ २९ ॥ अथ उक्तानुवादपूर्वकं रामस्य वृत्तान्तमाह-गुहामिति । सुग्रीवेविमुक्त इत्यत्र अविमुक्त इति छेदः । सुग्रीवे गुहां किष्किन्धां प्रविष्टे गगने धनैरविमुक्ते आवृते सति वर्षरात्रोषितो रामः पाण्डरं गगनं दृष्ट्वा मुमोहेत्युत्तरत्र सम्बन्धः ॥ १-३ ॥ स त्विति । मनस्स्थामपि परमप्रियास्पदत्वेन नित्य सन्निहितामपि राक्षसगेहे कामवस्थामनुभवतीति चिन्तयामासेत्यर्थः ॥ ४ ॥ ५ ॥ देति । सारसारवसंघुष्टं सारसानामारवैः संघुष्टं व्योम दृष्ट्वेति सम्बन्धः ॥ ६ ॥
For Private And Personal Use Only