SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir "नित्यं कौटिल्ये गतौ” इति यङ् ॥ १४ ॥१५॥ किमिति । वशंगतेन, मनसेति शेषः। पौरुष्यं पौरुषम् । स्वार्थे व्यञ् । अयं वर्तमानः । समाधिः चित्तसमाधानम् । सदा तत्र तत्र काले। संहियते सम्पाद्यते । अत्र अस्मिन् काले निवर्तितेन योगेन किम । अयं यदा संहियते समाधिः इति पाठा All न्तरम् । यदा यस्मिन् काले। अयं समाधिः चित्तसमाधानम् । संहियते संपाद्यते। अत्रास्मिन् काले निवर्तितेन योगेन सन्नहने उत्साहेन, किमित्यर्थः ॥१६॥ किमार्य कामस्य वशंगतेन किमात्मपौरुष्यपराभवेन। अयं सदा संह्रियते समाधिः किमत्र योगेन निवर्तितेन ॥१६॥ क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम् । सहायसामर्थ्यमदीनसत्त्व स्वकर्महेतुं च कुरुष्व हेतुम् ॥ १७॥ न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण । न चानिचूडां ज्वलितामुपेत्य न दह्यते वीरवराह कच्चित् ॥ १८ ॥ सलक्षणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः । हितं च पथ्यं च नयप्रसक्तं ससाम धर्मार्थसमाहितं च ॥ १९॥ तकियेति । क्रियाभियोगं कार्योद्योगम् । मनसः प्रसादम् । समाधियोगानुगतं धैर्योपायाभ्यामनुबद्धं कालं च । सहायसामर्थ्यम् सुग्रीवादिसहायसामर्थ्यम् । स्वकर्म देवतोपासनात्मकं तदेव हेतुः तं च हेतुं कुरुष्व, क्रियाभियोगादिकं सर्व स्वकार्यसिद्धौ हेतुं कुरुष्वेत्यर्थः । अत्र प्रकरणे लक्ष्मणेन रामस्याश्रित रक्षणत्वरा संदीप्यत इति स्वोपदेशः सुलभः ॥१७॥ न जानकीति । सुलभालन्धुमहो। अग्निचूडाम् अग्निज्वालाम ॥१८॥ सलक्षणमिति । रामः अप्रधृष्य आर्य ! यदा यस्मिन्काले । समाधिः चित्तसमाधान सम्पादनीयम् । अत्र अस्मिन्काले अयं किं संहियते किमर्थ संहियते ? कामस्य वशंगतेन किं कामक्शगमनेन । किम् ? द्वितीयाया अलमार्षः । भावे निष्ठा । आत्मपौरुष्पपराभवेन किम् ? पौरुषमेव पौरुष्यम् । निवर्तितेन योगेन किम् ? योगः सन्नहनम्, उद्योग इत्यर्थः। धैर्यालम्बनेन उद्योगे कर्तव्ये तत्परित्यागेन कामपरतन्त्रत्वादिकमयुक्तमिति भावः॥ १६ ॥ क्रियाभियोगमिति । हे अधिकसत्व ! क्रियाभियोग कार्योद्योगं मनः प्रसादम् । समाधियोगानुगतं धैर्योपायाभ्यामनुषद्धं कालं च सुग्रीवादिसहायसामर्थ्य स्वकर्महेतुं च स्वकर्म देवतोपासनात्मकं तदेव हेतुः तं च हेतुं कुरुष्व, क्रियाभियोगादिकं सर्व स्वकार्यसिद्धी हेतुं कुरुष्वेत्यर्थः ॥ १७ ॥ नेति । अनिचूडाम् अग्निशिखाम् । त्वयैव सनाया न परेण नान्येन, अनिचूडामुपेत्य न न दह्यते । कञ्चित् किन्तु वह्यत एवेत्यर्थः ॥ १८॥ सलक्षणमिति । रामः अप्रधृष्यं युक्तिभिरविचाल्यम्, स्वभावजं स्वभाषसिद्धम् । हितम् उदर्कसुखकरम् । पथ्यं तत्काल वि०-रामः अप्रभृश्य युक्तिभिरविचाश्यम् । स्वभावज स्वभाव सिहं वाक्यमुक्तवन्तं लक्षणसहितं लक्ष्मणमुवाच । हे लक्ष्मण ! यक्वया प्रयुक्त वाक्य तद्विर्त तत्कालसुखम् । पश्यं कालान्तरेपि सुखम् । नयपतक्तं राजनीतियुक्तम् । सामसहितं धर्मार्थान्यो समाहित सातम || स-सलक्ष्मणम् इति पाठेऽपि सलक्ष्मणं लक्षणसहितम् । “लक्ष्म गं नाम्नि चिहे च रामभातार लक्ष्मणः " इति विश्वः ॥ १९॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy