SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersun Gyanmandir IAS धार्यसाधारणाम् ॥ २१ ॥रौद्रे हिंसारूपकर्मणि । अधर्मेण कर्शितः पीडितः । संवासात्सम्पर्कात् ॥ २२ ॥ शस्त्रसंयोगकारणं पुरावृत्तम्, उक्त । मिति शेषः ॥२३॥ पुरावृत्तफलितमर्थमाह-अग्नीति । अग्निसंयोगो यथा वस्तुनो विकारहेतुः एवं शस्त्रसंयोगोऽपि शत्रिणो विकारहेतुर्भवति । हात् त्वद्विषयोहात् । बहुमानात् मद्विषये त्वत्कृतबहुमानात् । स्मारये भवद्विज्ञातार्थमेव स्मारयामि । न शिक्षये नापूर्वमर्थमुपदिशामि ॥२४॥ ततः स रौद्रेभिरतः प्रमत्तोऽधर्मकार्शितः। तस्य शस्त्रस्य संवासाजगाम नरकं मुनिः ॥ २२ ॥ एवमेतत्पुरा वृत्तं शस्त्रसंयोगकारणम् ॥ २३॥ अग्निसंयोगवद्धेतुश्शस्त्रसंयोग उच्यते । स्नेहाच्च बहुमानाच्च स्मारये. त्वां न शिक्षये ॥ २४ ॥ न कथञ्चन सा कार्या गृहीतधनुषा त्वया। बुद्धिरं विना हन्तुं राक्षसान् दण्डकाश्रितान् । अपराधं विना हन्तुं लोकान् वीर न कामये ॥ २५॥ क्षत्रियाणां तु वीराणां वनेषु निरतात्मनाम् । धनुषा कार्य मेतावदार्तानामभिरक्षणम् ॥ २६ ॥ गृहीतधनुपा त्वया वैरं विना राक्षसान हन्तुं सा रौद्री बुद्धिः । कथञ्चन केनापि प्रकारेणान कार्या न कर्तु योग्या, त्वत्प्रकृत्यननुगुणत्वादिति भावः। इयं । बुद्धिमत्प्रकृतेरप्यननुगुणेत्याह अपराधमिति । लोकान् प्राणिनः ॥२५॥ तनि०-अपराधं विनेति । निरपराधहननमेवात्र प्रतिषिध्यते नतु तपस्विषु सापराध राक्षसहननम् । तेन सापराधं सम्यगालोच्य तत्राप्यपराधक्षालनोपायान्तराभावे हन्तव्यमिति भावः । लोकान् हन्तुमिति । " अकुर्वन्तोपि पापानि शुचयः पापसंथाश यात्" इत्युक्तन्यायेन एकापराधिलक्षीकरणेन प्रवृत्ने हनने अनपराधिनामपि बाधा यथा न भवति तथा कार्यमितीहार्थः ॥ २५॥ यद्येवं तहि क्षत्रियधमों धनु थे वर्धारणं निरवकाशं स्यादित्याशचाह-क्षत्रियाणां विति । वीराणां क्षत्रियाणां धनुषा कार्य कर्तव्यम् । वनेष निरतात्मनाम् आर्तानां पीडितानां रक्षणं अधर्मकर्शितः अधर्मेण पीडितः । संवासात् धारणात ॥ २२ ॥ अग्निसंयोगवद्धेतुः अग्निसंयोगो यथा वस्तुनो विकारहेतुस्तद्वच्छत्रसंयोगोऽपि शखिणो विकारहेतु भवति । स्वधाष्टच परिहरति स्नेहादिति । स्नेहाद्भवद्विषयस्नेहात । बहुमानात् भवत्कर्तृकात् अस्मद्विषयात । स्मारये भवद्विज्ञातार्थमेव स्मारयामि, नत्वपूर्वमुप दिशामीत्यर्थः ॥ २३ ॥२४॥ उपसंहरति-नेति । वरं विना हन्तुं बुद्धिर्न कार्येति सम्बन्धः । इममर्थं प्रपञ्चयति अपराधं विनेति । लोकान् प्राणिनः राक्षसवधारम्भः जानेकानेरितरमाणिवधवद्धपत्पादको भविष्यतीति भावः ॥२५॥ नन्वार्तमुनिजनरक्षणार्थमेव अनपराधिनामपि वधोऽस्तीति सिद्धान्तमुपसत्याह-क्षत्रियाणा मिति । क्षत्रियाणां क्षत्रधर्मोचितशिष्टरक्षणप्रवृत्तानां तु आर्तानां स्वसन्निधो पीडचमानानां वने निरतात्मनां मुनीनां अभिरक्षणमिति यावत् । एतावदेव धनुषा For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy