________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
अ.रा.भ.IN
IH
कदम्बैः, सजे बन्धूकै, कन्दलैः भूतालपुष्पैश्वाट्या मयूराणां मत्ताभिरुतैःप्रवृत्तेश्च आपानभूमिप्रतिमा मद्यपानस्थलीतुल्या विभाति । सा हिसंस्कार | पुष्पाच्या मद्यपूर्णा उन्मादनृत्तवत्पुरुषयुक्ता च भवति ॥ ३४ ॥ मुक्तेति । विवर्णच्छदनाः विविधवर्णपक्षाः।विहङ्गाः चातकाः। सुरेन्द्रदत्तं देवेन्द्रदत्तम् ।।
टी.कि.कां. चातकाः भूस्थं जलं न पिबन्ति, किन्तु सद्यो वर्षदेवताभूतेन्द्रदत्तमेव पिबन्तीति प्रसिद्धिः ॥ ३५ ॥ षट्पादा भृङ्गाः एव तन्त्री तस्या मधुराभिधानं ।
कदम्बसर्जार्जुनकन्दलाढ्या वनान्तभूमिर्नववारिपूर्णा । मयूरमत्ताभिरुतप्रवृत्तैरापानभूमिप्रतिमा विभाति ॥३४॥ मुक्तासकाशं सलिलं पतद्वै सुनिर्मलं पत्रपुटेषु लग्नम् । हृष्टा विवर्णच्छदना विहङ्गाः सुरेन्द्रदत्तं तृषिताः पिबन्ति ॥ ३५ ॥ षट्पादतन्त्रीमधुराभिधानं प्लवङ्गमोदीरितकण्ठतालम् । आविष्कृतं मेघमृदङ्गनादेवनेषु संगीत मिव प्रवृत्तम् ॥ ३६ ॥ क्वचित्प्रनृत्तैः क्वचिदुन्नदद्भिः क्वचिच्च वृक्षाग्रनिषण्णकायैः । व्यालम्बबर्हाभरणैर्मयूरैर्वनेषु
संगीतमिव प्रवृत्तम् ॥ ३७॥ मधुरनादः यस्मिन् तत् । प्लवङ्गमोदीरितं मण्डूकनाद एव कण्ठतालो यस्मिन् तत् । मेघा एव मृदङ्गाः मर्दलाः तेषां नादेशविष्कृतं प्रकटीकृतं । संगीतं वनेषु प्रवृत्तमिव सम्बभूवेवेति योजना॥३६॥ संगीतविषये केचिन्नृत्यन्ति केचिद्गायन्ति केचित् प्रधाना अनुभवन्ति तत्सर्व वनेपि दर्शयति । नृत्यन्तो मयूराः नर्तकस्थानीयाः। नदन्तो मयूराः गायकस्थानीयाः । वृक्षाग्रनिषण्णकायाः मयूराः अनुभवितृस्थानीयाः । अतस्तैः संगीतं प्रवृत्तमिव ॥ ३७॥ आपानभूमिः मधुपानस्थानम् । तनु कदम्बपुष्पाढचं मधुपूर्ण मत्तजनाभिरावं नृत्युक्तं च, इयं बनान्तभूमिरपि वर्षाकालसम्भूतैः रक्तवर्णैः कदम्बादिभिः पुष्पैराढचा मधुसदृशवारिपूर्णा च मयूरनाम्नां मत्तानामभिरुतेः प्रनृत्तैश्च युक्तेत्यापानभूमिसादृश्यम् ॥३४॥मुक्तासकाशं मुक्ताभिः समानः काशः प्रकाशो यस्य तत्तथोक्तम् । विवर्ण च्छदनाः विविधवर्णपक्षाः॥३५॥ षट्पादतन्त्रीमधुराभिधानं षट्पादाः भ्रमराः त एव तन्त्री तस्याः मधुरनादो यस्मिंस्तत् । प्लवङ्गमोदीरितमेव कण्ठतालो यस्मिन् तत् । मेघमृदङ्गनादैः आविष्कृतं प्रकटितम् । सङ्गीतं वनेषु प्रवृत्तमिवेति सम्बन्धः ॥ ३६॥ सङ्गीतविषये केचिनृत्यन्ति, केचिद्गायन्ति, केचित्प्रधाना अनुभवन्ति । तत्सर्व वनेपि सम्पाद्यते-कचिदिति । नृत्यन्तो मयूराः नर्तकस्थानीयाः, वृक्षाप्रनिषण्णमयूराः अनुभवितृस्थानीयाः, नदन्तो मयूराः मृदङ्गस्थानीया गायकाच अतस्तैस्सङ्गीतं प्रवृत्तमिव ॥३७॥
IV UCH
For Private And Personal Use Only