SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सन्तुष्टाः । वननिर्झरेषु यः प्रपातशब्दः पतनकृतशब्दः तेनाकुलिताः ॥२८॥ घारेति । क्षणार्जितं तत्क्षणसम्पादितम् । पुष्परसेनावगाढम् उत्पन्नं मदम् । धारानिपातैः अभिहन्यमानाः अत एव पुष्पं विहाय केवलं शाखा लम्बमानाः । षट्चरणाः भृङ्गाः । त्यजन्ति, कदम्बपुष्पेषु रसबाहुल्यात्क्षणेन मदः क्षणेन तद्धानिश्च भवतीत्यर्यः ॥ २९ ॥ अङ्गारचूर्णानाम् इङ्गालचूर्णानाम् उत्करैः समूदैस्तुल्याः अङ्गारचूर्णोत्करसन्निकाशाः, तदन्नीला इत्यर्थः ॥ ३० ॥ धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः । क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति ॥ २९ ॥ अङ्गारचूर्णोत्कर सन्निकाशैः फलैः सुपर्याप्तरसैः समृद्धैः । जम्बूद्रुमाणां प्रविभान्ति शाखा निलीयमाना इव षट्पदौधैः ॥ ३० ॥ तडित्पताकाभिरलंकृतानामुदीर्णगम्भीर महारवाणाम् । विभान्ति रूपाणि बलाहकानां रणोद्यतानामिव वारणानाम् ॥ ३१ ॥ मार्गानुगः शैलवनानुसारी संप्रस्थितो मेघरवं निशम्य । युद्धाभिकामः प्रति नागशङ्गी मत्तो गजेन्द्रः प्रतिसन्निवृत्तः ॥ ३२ ॥ क्वचित्प्रगीता इव षट्पदौघैः क्वचित्प्रनृत्ता इव नीलकण्ठैः । वचित्प्रमत्ता इव वारणेन्द्रैर्विभान्त्यनेकाश्रयिणो वनान्ताः ॥ ३३ ॥ रामानु०-अत्राङ्गारशब्दः शान्ताङ्गारवाची अन्यया षट्पदौघसाम्यं न स्यात् ॥ ३० ॥ तडिदिति । विद्युत्पताका इति श्लोकोक्तमेवार्थमादरातिशयेन भङ्गयन्तरणोक्त ७ वान् ॥ ३१ ॥ मार्गेति । मार्गानुगः सन्मार्गचारी वेदमार्गानुसारी । दिग्जयाय प्रवृत्तः प्रतिवादिशब्दं श्रुत्वा वादाहवकांक्षी प्रतिसन्निवृत्तः पुरुष धौरेयोऽत्र गम्यते ॥ ३२ ॥ क्वचिदिति । प्रकृष्टं गीतं येषां ते प्रगीताः । एवमुत्तरत्रापि योज्यम् । अनेकाश्रयिणः गीतनृत्तमदाश्रयिणः ॥ ३३ ॥ | सम्बध्यन्ते ||२७||२८|| धारेति । धारानिपातैः वर्षधारानिपातैः । पुष्परसैः पुष्पमकरन्दपानैरित्यर्थः । अवगाढं निविढं मदं त्यजन्तीति सम्बन्धः ॥ २९॥ अङ्गारेति । अत्राङ्गारशब्दः शान्ताङ्गारवाची समृद्धैः फलैरुपलक्षिताः जम्बूदुमाणां शाखाः प्रतिभान्तीति सम्बन्धः ॥ ३० ॥ ३१ ॥ मार्गानुग इति । स्वनिवासभूमिशैल बनानुसारी मार्गानुगः मार्गानुगमनेन सम्प्रस्थितः पृष्ठतो मेघरवं निशम्य प्रतिनिवृत्त इति सम्बन्धः ॥ ३२ ॥ अनेकाश्रमिणः गीतनृत्समदाश्रयिणः ॥ ३३ ॥ स०-क्षणार्जितम् एकेन क्षणेनैवार्जितं सम्पादितं पुष्परसावगाढं पुष्पमकरन्दोनद्धम् । मदं गर्वम् । धारानिपतिरनिहन्यमानास्त्यजन्तीति योजना । जलधारापातेन कदम्पशाखावलम्बनम । तेन पुनः पुष्पान्तराजैनाभावः आर्जितस्यापि त्यागः क्षणार्जितं पुष्परसावगाढं मदमित्यनेन भदनिर्भरता योग्यत इति ज्ञेयम् । क्षणेनोत्सवेनार्जितमिति व्याख्याने बहुदिनार्जितत्वस्यापि शक्योक्तित्वान्माहात्म्यातिशपालाम इति यम् ॥ २९ ॥ उदीर्णगम्भीरमहारवाणाम् उदीर्णः उब, गम्भीर उच्चतरः महान् उच्चतमः रवो येषां तेषाम् । रूपाणि आकाराः ॥ ३१ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy