________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
॥८॥
श्यामं प्राप्त प्रवृत्ता भक्तिरूपापन्नधीभवति सत्पुरुषस्येति द्योत्यते ॥२३॥ बालेन्द्रगोपैः अन्तरेषु चित्रितेन नानावर्णीकृतेन । नवशाबलेन उपलक्षिता टी.कि.को. भ्रमिः शकप्रमेण प्राचुर्येण शकवणेन । लाक्षोक्षितकम्बलेन मध्ये मध्ये लाक्षारसरजितेन कम्बलेन नारीव भाति । अत्र भगवत्कटाक्षवणस.२८ किंचिदुदञ्चितभक्तिका उच्यन्ते ॥ २४ ॥ निद्रेति । आषाढे स्वापारम्भः । श्रावणे निद्रासक्तिरुच्यते । अत्र तुल्ययोगितालङ्कारः । लोकोजीवनप्रवृत्त्या
बालेन्द्रगोपान्तरचित्रितेन विभाति भूमिर्नवशादलेन । गात्रानुवृत्तेन शुकप्रमेण नारीव लाक्षोक्षितकम्बलेन ॥२४॥ निद्रा शनैः केशवमभ्युपैति द्रुतं नदी सागरमभ्युपैति । हृष्टा बलाका घनमभ्युपैति कान्ता सकामा प्रियमभ्युपैति ॥ २५॥ जाता वनान्ताः शिखिसंप्रनृत्ता जाताः कदम्बाः सकदम्बशाखाः । जाता वृषा गोषु समानकामा जाता मही सस्यवनाभिरामा ॥ २६ ॥ वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति । नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवङ्गाः ॥२७॥ प्रहर्षिताः केतकपुष्पगन्धमाघ्राय हृष्टा वननिर्झरेषु।
प्रपातशब्दाकुलिता गजेन्द्राः सार्ध मयूरैः समदा नदन्ति ॥ २८॥ हरेस्तदेकचित्तत्वं शेषभूतानां शेषिपारतन्त्र्यसिद्धिश्च द्योतिता ॥ २५॥ शिखिभिः संप्रनृत्तं येषु ते तथोक्ताः । कदम्बशब्देन कदम्बपुष्पमुच्यते । सकदम्बपुष्पशाखा इत्यर्थः । सस्यवनेन सस्यसमूहेन । अभिरामा रम्या । अनेन सर्वानुकूल्यमुक्तम् ॥ २६ ॥ वहन्तीति । यथासंख्यमलंकारः । प्लवङ्गाः वानराः समाश्वसन्ति । एकत्रेव बहुभक्ष्यलाभेन अचलचित्ता भवन्तीत्यर्थः ॥२७॥ हृष्टाः पूर्वमेव सन्तुष्टाः केतकगन्धमाघ्राय प्रहर्षिताः प्रकर्षण शुकमभेण लाक्षोक्षितेनेति विशेषणद्वयन कम्बलस्य प्राचुर्येण शुकप्रभत्वं मध्ये मध्ये लाक्षारसराग्नितत्वं चोच्यते ॥२४॥२५॥ जाता इति । शिखिसुप्रलापा इति पाठः । शिखिना मयूराणां सुप्रलापा येषु ते तथोक्ताः। सकदम्बशाखाः कदम्बपुष्पसहितशाखाः ॥ २६ ॥ वहन्तीति । नद्यादयो यथाक्रमं वहन्तीत्यादिक्रियामिः | स०-प्रहर्षिताः दृष्टाः । स्वार्थिकेडन्तत्वादिडुपपद्यते । केतकिगन्ध केतकीनां गन्ध आमोदस्तन् । भान्धव्यवचनत्वादेकवचनं युज्यते । केतकिगन्धमित्यत्र " पापोः संज्ञाछन्दसोः " इत्युक्तेः केतकीति - संज्ञात्वावस्व इति पोष्यम् । प्रपातशब्दाकुलिताः प्रपातशब्दाः उन्नतपदेशानतपदेशे जलपातजनितम्वनयः । तैराकुलिताः ये प्रदष्टास्तमयूरः तेम्वेव मेचबुद्धिमिहिमिः सार्ध नदन्तीयन्वयः । एतेन " मेवदर्शनाभावा न्मयूरसाहित्यवर्णनमयुक्तम्, प्रहर्षिता इति पूर्वभुक्तिः उत्तरत्र प्रहृष्टा इति वचनं च तदिव" इति निरस्तम् । यहा प्रहर्षिताः सन्तोषकारणवस्तुभिस्तोषिताः । प्रष्टाः सन्तुष्टा इति मन्तव्यम् । माघ्राप मत्ता इति पाठेसमदाः ससन्तोषा इत्यर्थोऽनसेयः ॥ २८ ॥
IN८३॥
For Private And Personal Use Only