________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अत्र सात्त्विकराजसज्ञानमिश्र भगवद्विषयानुरागयुक्तं भक्तिप्रेरितस्तुतिरवसुखरितपरिसरं हृदयं वहन्तो भक्ताः कथ्यन्ते ॥१८॥ रसाकुलं माधुर्यव्याप्तम् । श पदपदसन्निकाशं भृङ्गवन्नीलम् । जम्बु जम्ब्वाख्यं फलम् । “जम्बूः स्त्री जम्बु जाम्बवम्" इत्यमरः । प्रकामम् अतिशयेन प्रभुज्यते, जनेरिति शेषः। अनेकवर्ण रक्तहरिताद्यनेकरूपम् । आम्रफलं चूतफलम् । अनेन भगवत्कृपया जीवफलभोग उच्यते ॥ १९ ॥ विद्युदिति । नक्षत्रमालास्थानीया बलाक । रसाकुलं षट्पदसन्निकाशं प्रभुज्यते जम्बुफलं प्रकामम् । अनेकवर्ण पवनावधूतं भूमौ पतत्याम्रफलं विपक्वम् ॥ १९ ॥ विद्युत्पताकाः सबलाकमालाः शैलेन्द्रकूटाकृतिसन्निकाशाः । गर्जन्ति मेघाः समुदीर्णनादा मत्ता गजेन्द्रा इव संयुगस्थाः॥२०॥ वर्षोदकाप्यायितशादलानि प्रवृत्तनृत्तोत्सवबर्हिणानि । वनानि निर्वृष्टबलाहकानि पश्या पराहेष्वधिकं विभान्ति ॥ २१॥ समुद्रहन्तः सलिलातिभारं बलाकिनो वारिधरा नदन्तः। महत्सु शृङ्गेषु मही धराणां विश्रम्य विश्रम्य पुनः प्रयान्ति ॥ २२ ॥ मेघाभिकामा परिसंपतन्ती संमोदिता भाति बलाकपतिः ।
वातावधूता वरपौण्डरीकी लम्बेव माला रचिताऽम्बरस्य ॥ २३ ॥ माला । शैलेन्द्रस्य कूटानां शृङ्गाणामाकृतेः संस्थानस्य सन्निकाशास्तुल्याः । अनेन सर्वलोकप्रसिद्धाः सकलवावदूकाः वेदमार्गप्रतिष्ठापका सकाः
२० ॥ निर्वृष्टाः वर्षकाः बलाहकाः मेघाः येषु तानि । कर्तरि क्तः । अत्र दिव्यदम्पत्योः स्वकरोद्धृतकुम्भजलसिक्तालवालकलितोद्यानतुल्या लोकाः सर्वे भगवत्कृपावर्षेण संपन्नार्थकामा इत्युच्यते ॥२१॥ समुद्रहन्त इति । सगर्भस्त्रीजनाः पर्वतमारोहन्त इव महत्सु शृङ्गेषु पुनः पुनर्विश्रम्य प्रयान्ति । अनेन 'हृदयेनोद्वहन् हरिम्' इत्युक्तरीत्या भगवद्ध्यानेन युक्ताः विशदज्ञानाः सन्ततस्तुतिशीलाः पूर्वाघोत्तराघलेशं क्रमेणोत्तीर्य पर कोटिमापन्नाः प्रति ।
पाद्यन्ते ॥२२॥ मेघेति । गर्भधारणार्थ मेघमभिकामयत इति मेघाभिकामा । परिसम्पतन्ती मेघ प्राप्तुमागच्छन्तीत्यर्थः । संमोदिता सातसंमोदा।। IN पुण्डरीकाणां सितपद्मानां विकारः पौण्डरीकी, वरा चासौ पौण्डरीकी चेति कर्मधारयः। लम्बा रचिता लम्बमानतया कृता । अनेन भगवन्तं कालमेघ
समुदहन्त इति । बलाकिनः मेघाः । सलिलातिभार समुद्वहन्तः अत एव वारिधराः अत एव महीधराणां शरेष विमम्प विश्रम्प प्रयाम्नीति सम्बन्धः । लोके भारभृतामयं स्वभाष इति भावः ॥ २२ ॥ मेघाभिकामा गर्भधारणा मेघमभिकामयत इति तथा । पौण्डरीकी मालेव क्षेतपक्जमालेव ॥२५॥
कम
११४
For Private And Personal Use Only