________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ
टी.कि.का. स. २८
अन्यत्र सहासान् । अत एव मम शोकाभिभूतस्य कामसंदीपनान् । अन्यरतिदर्शनस्योद्दीपनत्वादिति भावः । अनेन केषुचिदस्मदीयेषु । ॥८॥
ब्रह्मानुभवसंतुऐषु सत्सु केषांचिदस्मदनुभवाभावो ममातीव दुःसह इत्युक्तम् ॥१४॥ अथ भगवत्कटाक्षफलमन्यापदेशेन दर्शयति-रज इत्यादिना रज इत्युपलक्षणम् । रजस्तमसी प्रकान्ते । वाघुशब्देन सततसंसारगतिर्जन इत्युच्यते। सहिम इति शीतलहृदयत्वम् । निदाघेत्यादिना आध्यात्मिकादि
रजः प्रशान्तं सहिमोऽद्य वायुर्निदाघदोषासराः प्रशान्ताः। स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नराः स्वदेशान् ॥ १५॥ संप्रस्थिता मानसवासलुब्धाःप्रियान्विताः संप्रति चक्रवाकाः। अभीक्षणवर्षोदकविक्षतेषु यानानि मार्गेषु न संपतन्ति ॥१६॥ क्वचित्प्रकाशं क्वचिदप्रकाशं नमः प्रकीर्णाम्बुधरं विभाति । क्वचित्वचित्पर्वत सन्निरुद्ध रूपं यथा शान्तमहार्णवस्य ॥ १७॥ व्यामिश्रितं सर्जकदम्बपुष्पैर्नवं जलं पर्वतधातुताम्रम् । मयूर
केकाभिरनुप्रयातं शैलापगाःशीघ्रतरं वहन्ति ॥ १८॥ तापशान्तिः । यात्रा संसारगतिः । स्वदेशान् स्वप्राप्यभूतपरमपदम् । स्वभावार्थस्त स्पष्ट एव ॥ १५ ॥ रामानुक-रज इति । सदिमः सशीकरः । स्विंता: निवृत्ताः । स्थिता यान्तीति च सिद्धवनिर्देशः । वर्षाकाले संभावितत्वात्कृतः ॥ १५ ॥ मानसवासलब्धाः हंसाः संप्रस्थिताः । वर्षभीततया कचिल्लीनाः । परमहंसा ख्यानां संन्यासिनां चातुर्मास्यतया सञ्चारनिवृत्तिोत्यते । चक्रवाकाः कामोद्रेकेण प्रियासमन्विता भवन्ति । यानासंपतने हेतुः अभीक्ष्णेति । यानानि शकटरथादीनि । संपस्थिता इत्यनेन कृतवैराग्यत्वमुच्यते । प्रियान्विता इति भगवद्भक्तिः । अभीक्ष्णेत्यादिना भगवत्कटाक्षेण निवृत्तकर्मत्वमुच्यते ॥ १६ ॥ क्वचिदिति । प्रकीर्णाम्बुधरं विप्रकीर्णमेघम् । अत एव क्वचित्प्रकाशं क्वचिदप्रकाशं नमः । क्वचित्वचित् पर्वतसन्निरुद्धम् । शान्तमहार्णवस्य । लानिस्तरङ्गसमुद्रस्य।रूपं स्वरूपमिव भाति। अनेन मन्दाज्ञानेन प्रकाशाप्रकाशं ब्रह्मस्वरूपमुच्यते॥१७॥ सर्जेः असनपुष्पैः। कदम्बपुष्पश्च व्यामिश्रित|
संमिलितम् । पर्वतधातुताम्रमित्यनेन नदीनां पर्वतादुत्पत्तिरुक्ता । मयूराणां केकाभिः केकारवैः अनुप्रयातम् अनुस्यूतम् । नवं जलं वहन्ति । Mसहिमः सशीकरः। निदाघदोषा उष्मस्वेदादयः । स्थिताः निवृत्ताः॥१५॥ मानसवासलुब्धाः मानसे सरसि वासाय लुब्धाः। यानानि रयशकटादीनिं । न सम्पतन्ति IMन भ्रमन्ति ॥१६॥ शान्तमहार्णवस्य निस्तरङ्गजलधेः ॥१७॥ पर्वतधातुतानं पर्वतनिष्ठधातुसम्बन्धेन ताम्रम् । जलं शैलापगाः क्षुद्रनद्यः वहन्ति प्रवहन्ति ॥१८-२१॥ SI
पर
For Private And Personal Use Only