________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
टी.कि.को.
स.२८
पा.रा.भ. | मन्दमारुत एव निश्वासो यस्य तत् तथा|अनेन निरन्तरनिश्वासवत्वमुच्यते । सन्ध्या सम्व्यारागः । स एव चन्दनं तेन रनितम् आलितम् । अनेन ताप
शान्तिकरशीतोपचार उक्तः।आपाण्डुजलदमित्यनेन विरहपाण्डुतोक्ता । अत एव कामातुरं कान्ताविरहपीडितमिवेत्युत्प्रेक्षा रूपकानुप्राणिता ॥६॥ एषेति । धर्मेण ग्रीष्मसंतापेन । सीतापक्षे विरहतापेन । परिक्लिष्टा नववारिभिः परिप्लुता सिक्ता । सीतापक्षे अश्रुक्किन्ना । बाष्पम् ऊष्म अश्रुजलं च
मन्दमारुतनिश्वासं सन्ध्याचन्दनरञ्जितम् । आपाण्डुजलदं भाति कामातुरमिवाम्बरम् ॥६॥ एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता। सीतेव शोकसन्तप्ता मही वाष्पं विमुञ्चति ॥ ७ ॥ मेघोदरविनिर्मुक्ताः कहारसुखशीतलाः। शक्यमञ्जलिभिः पातुं वाताः केतकिगन्धिनः ॥ ८॥ एष फुल्लार्जुनः शैलः केतकरधिवासितः। सुग्रीव इव शान्तारि
र्धाराभिरभिषिच्यते ॥९॥ मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः। मारुतापूरितगुहाःप्राधीता इव पर्वताः॥१०॥ विमुञ्चति । प्रथमजलनिपाते हि भूमेरूष्मा समुदञ्चति । श्लेषालंकारः ॥७॥ मेघेति । मेघेत्यादिना मान्यमुक्तम् । कतारेत्यादिना शैत्यसौरभ्ये । एवं गुणत्वात् वाताः आदरातिशयेन अनलिभिरादाय पातुं शक्यम् । अतिशयोक्तिरलंकारः ॥ ८ ॥ तनि-अअलिभिः पातुं शक्यमिति वातावयवानामति पश्लिष्टावयवत्वमतिशीतलत्वं च व्यञ्जितम् ॥ ८॥ फुल्लार्जुन इत्यनेन मालालंकृतत्वमुच्यते । केतकैरधिवासित इत्यनेन चन्दनादिमत्त्वं च सुग्रीवस्य सूच्यते । शान्तारिरित्यनेन शैलस्य निस्तापत्वमुक्तम् । बिम्बप्रतिबिम्बभावेन साम्यप्रतिपादनादुपमालंकारः॥ ९॥ मेघा एव कृष्णाजिनानि तेषां घराः नीलवर्णतया तद्रूपणम् । शुभ्रत्वेन धाराया उपवीतत्वरूपणम् । धारा निर्झरधाराः । मारुतापूरितगुहा इत्यनेन शब्दहेतुवायुभकण्ठत्वमुच्यते। अन्तरान्तरा समुद्भिवसन्ध्यारागैरिति यावत् । अत एव ताः । अन्तेषु पर्यन्तेषु अधिकपाण्डरेः । स्निग्धैः किञ्चिजलरससम्बन्धः अनपटच्छेदैः अभ्राण्येव पटच्छेदाः तेः । अम्बरमाकाशं कर्तृ । बव्रणमिव, वणगोपनाय निहितेन वृतादिनेत्यर्थः । प्रतीयत इति शेषः ॥ ५ ॥ मन्दमातेति निश्वासनेरन्तर्यम्, सन्ध्याचन्दनेति शीतोपचारः, आपाण्डु इति विरहपाण्डुत्वं चोक्तम् ॥ ६॥ ७॥ मेघोदरेति । " शक्यमनलिभिः पातुम्" इत्यनेन शैत्यमान्यसौरम्पभूयस्त्वा दादरातिशयेनाञ्जलिभिरादाय पातुं शक्यत इत्युच्यते ॥८॥९॥ मेघेति । धारायज्ञोपवीतिनः निर्झरधारोपवीतिनः । मारुतापूरितगुहा इत्यनेन शब्दहेतुत्व
स०-मेघोदरविनिर्मुक्ता इत्यनेन बद्दूरागमनेन मान्य सूचयति । कल्हारदलपच्छीतलः । केतक्या गन्ध व मान्य एषामस्तीति केतकिगन्धिनः । एतादृशशाता भनेकवारम् भकलिनिरादाय पातुं शक्यं शक्याः "मुखनासिकावचन:-" इति सूत्रमापकैवटादिदिशा “ शक्यं क्षुदपहन्तुम् " इतिषष्ठस्पमित्युपपन्नं पदसंस्कारसन इति यम ॥ ८ ॥
For Private And Personal Use Only