________________
Shri Mahavir Jain Aradhana Kendra
mom.kobatith.org
Acharya Shri Kalassagarsun Gyarmandir
अयमिति । समयः सुग्रीवस्य स्थानावधित्वेन संकेतितः। सायं जलागमः कालः वर्षाकालः । अथ संप्राप्तः संप्रवृत्तः ॥२॥ नवेति । द्यौः भास्करस्य गभस्तिभिः किरणः । समुद्राणां रसं पीत्वा नवमासधृतं कार्तिकायापाढपर्यन्तनवमासधृतं रसायनं षडरसानां कारणं गर्भ जलं प्रसूते जनयति । भास्करस्य गभस्तिभिरित्यनेन “याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति " इति श्रुतिः सूच्यते । समुद्राणां रसमित्यनेन इंसस्य
अयं स कालः संप्राप्तः समयोऽद्य जलागमः। संपश्य त्वंनभो मेधैः संवृतं गिरिसन्निभैः ॥२॥ नवमासधृतं गर्भ भास्करस्य गभस्तिभिः । पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् ॥३॥ शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः। कुटजार्जुनमालाभिरलंकर्तु दिवाकरम् ॥ ४ ॥
सन्ध्यारागोत्थितैस्तारन्तेष्वधिकपाण्डरैः । स्निग्धैरभ्रपटच्छेदैर्बद्धवणमिवाम्बरम् ॥५॥ क्षीरनीरविभागचातुर्यवत् नीरलवणविभागसामर्थ्य द्योत्यते । अत्र प्रस्तुतद्योवर्षवृत्तान्तेनाप्रस्तुतस्यानेकनायकाहितवीर्यगर्भ भस्त्रिकाभिधृत्वा काले प्रेमास्पदसुतप्रसवकृद्धधूवृत्तान्तस्य प्रतीतेः समासोक्तिरलंकारः। यदि सीता सन्निहिता सापीदानी नवप्रसूतिः स्यादिति राममनोरथो गम्यते ॥३॥ शक्यमिति । मेघा एव सोपानानि तेषां पतिभिरम्बरमारुह्य । कुटजार्जुनानां वार्षिकपुष्पाणां मालाभिः । दिवाकरम् अस्मत्कुलगुरुभूतसूर्यमध्ये सदा ध्येयं विष्णुम् । “अलंकारप्रियो विष्णुः " इति न्यायेनालंकर्तुं शक्यम् । लिङ्गसामान्ये नपुंसकम् । “सह पल्या विशालाक्ष्या नारायणमुपा गमत्" इत्युक्तरीत्या सीतया सहाराधनं न लब्धमित्युत्कण्ठा द्योत्यते ॥४॥ संध्यारागोत्थितेः उत्थितसन्ध्यारागैः । आहितारन्यादित्वात् पर निपातः। वस्त्रखण्डपक्षे उत्थितसन्ध्यातुल्यरागैः अत एव ताम्रः । अन्तेषु प्रान्तेषु । अधिकपाण्डरैः अत्यन्तशुभैः । निग्धैः आः । अभ्रपटच्छेदैः अभ्राणि मेघा एव पटच्छेदाः वनखण्डाः तेः । बद्धवणमिवाम्बरं भाति । उपमालंकारः॥५॥ तनि०-अम्बरस्प वणसंबन्धासम्भवादतिशयोक्तिरलंकारः॥५॥ वर्षोधों विरहिभिर्दुस्सह इति हदि निधाय तल्लक्षणमाह-अयमिति । समयः सुग्रीवावस्थानावधित्वेन सहेतितः सोऽयं कालः अद्य सम्माप्तः सम्प्रवृत्तः ॥२॥ पद्यौः भास्करस्प गभस्तिभिः किरणः समुद्राणां रसं पीत्वा नवमासधृतं कार्तिकाद्यापाढपर्यन्तं नवमासपूतं रसायनं षडूसानां कारणं गर्भ जलं प्रस्त इति। योजना । " यामिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति " इति श्रुतिरत्रानुसन्धेया ॥३॥४॥ सन्ध्यारागेति । सन्ध्यारागोत्थितः उत्थितसन्ध्यारागैः,
For Private And Personal Use Only