________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
अप्रतिकृतः अकृतप्रत्युपकारः पुरुषः । सत्त्ववतां सात्त्विकानाम् । मनः हन्ति पीडयति, सात्त्विकास्तमजलं निन्दन्तीत्यर्थः । सजनापवादभीतः सुग्रीवोऽस्माकं प्रत्युपकारं करोत्येवेति भावः॥ ४५ ॥ प्रणिधाय भाविकार्यमालोच्य । दर्शनं मतम् । प्रणिधानेन दृष्टार्थमित्यर्थः ॥ ४६॥ नचिरात् । स० २८ अविलम्बितम् । जलानि प्रपात्यन्तेऽस्मिन्निति जलप्रपातो वर्षाकालः। भवान् क्षमतां त्वं क्षमस्व । वर्षाकालकृतविरहवेदना मा कुर्वित्यर्थः । रिपुनिग्रहे ।
अथैवमुक्तःप्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् । उवाच राम स्वभिरामदर्शनं प्रदर्शयन् दर्शन मात्मनः शुभम्॥४६॥ यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कता नचिराद्धरीश्वरः । शरत्प्रतीक्षःक्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः॥४७॥ नियम्य कोपं प्रतिपाल्यतां शरत्क्षमस्व मासाश्चतुरो मया सह । वसाचले ऽस्मिन्मृगराजसेविते संवर्धयन् शत्रुवधे समुद्यमम्॥४८॥ इत्या०श्रीमत्किष्किन्धाकाण्डे सप्तविंशः सर्गः ॥२७॥
स तथा वालिनं हत्वा सुग्रीवमाभिषिच्य च । वसन्माल्यवतःपृष्ठे रामो लक्ष्मणमब्रवीत् ॥१॥ धृतः धैर्ययुक्तः ॥ १७॥ सुग्रीवः प्रत्युपकारं करोतु वा मा वा, सद्यः शववधः कर्तव्य इति पुनः संजातकोपं रामं प्रत्याह-नियम्येति । चतुरो मासान् । आषाढश्रावणभाद्रपदाश्वयुजान् । शरत् कात्तिकमासः। शत्रुवघे समुद्यमम् उत्साहम् । संवर्धयन् अभिवर्धयन् । समुद्यत इति पाठे संवर्तयन् मृग राजादीनाशयन् ॥४८॥ रामानु०-संवर्तयन् काठ यापयन् ॥ ४८ ॥ इति श्रीगोविन्द श्रीरामा मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तविंशः सर्गः२७ | अथ रामः स्वस्याश्रितविशेषासहिष्णुत्वमन्यापदेशेन लक्ष्मणाय प्रदर्शयन् वर्षर्तुवर्णनमारभतेऽष्टाविंशे-स तथेत्यादि । सः, यत्किंचिदिरोधिनिरसना श्रितसंरक्षणलाभेप्यसत्कल्पमेतन्मन्यमानः । माल्यवतः पूर्व प्रस्रवणाख्यतयोक्तस्य गिरेः पृष्ठे उपरि वसन्, सर्वजनोजीवनाय सन्निहित इत्यर्थः॥१॥ प्रत्युपकारं करोत्पेव । अकृतज्ञः अप्रतिकृतः, अकृतप्रत्युपकार इत्यर्थः । सत्ववता परमसात्विकानां मनः हन्ति क्षोभयति ॥ ४५ ॥ अथैवमिति । दर्शनं मतम् । ॥४६॥ नचिरात कर्ता करिष्यति ॥४७॥ ननु सुग्रीवः प्रत्युपकारं करोतु वा मा वा, अस्मत्कर्तव्यं रावणनिरसनमधुनैव करिष्याव इति क्रोधाविष्टं रामं पुनरन।
नयन प्रत्याइ-नियम्य कोपमिति । संवर्तयन कालं सम्पज्ज्ञापयन् । प्रतिपाल्यतां प्रतीक्ष्यताम् ॥४८॥ इति श्रीमहेश्वरतीर्यविरचितार्या श्रीरामायणतत्त्वदीपिका Vख्यायाँ किष्किन्धाकाण्डव्याख्यायां सप्तविंशः सर्गः ॥२७॥१॥
11८०
For Private And Personal Use Only