________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अव्यवस्थितः धैर्यरहित इत्यर्थः। रणे विक्रमहन्तुं न समर्थ इत्यन्वयः ॥ ३६ ॥ रामानु-न हीति । विक्रमे जिह्मकारिणं विक्रमविषये छमकारिणम् ॥ ३६ ॥३७॥ परिवर्तयितुम् अधरोत्तरं कर्तुम् । अङ्गेति संबोधनम् । पुनरित्यत्र दीर्घाभाव आर्षः ॥ ३८ ॥ ३९ ॥ दीप्तैः ज्वलनकरैः । उद्बोधकः, वाक्यैरिति ।
न ह्यव्यवसितः शत्रु राक्षसं तं विशेषतः । समर्थस्त्वं रणे हन्तुं विक्रमैजिह्मकारिणम् ॥ ३६ ॥ समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु । ततः सपरिवारं तं निर्मूलं कुरु राक्षसम् ॥ ३७॥ पृथिवीमपि काकुत्स्थससागर वनाचलाम् । परिवर्तयितुं शक्तः किमङ्ग पुन रावणम् ॥ ३८ ॥ शरत्कालं प्रतीक्षस्व प्रावृष्ट्वालोऽयमागतः । ततः सराष्ट्र सगणं रावणं त्वं वधिष्यसि ॥ ३९॥ अहं तु खलु ते वीर्य प्रसुप्तं प्रतिबोधये। दीप्तैराहुतिभिः काले भस्म च्छन्नमिवानलम् ॥ ४०॥ लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् । राघवः सुहृदं स्निग्धमिदं वचनमब वीत् ॥४१॥ वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च। सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया ॥४२॥ एष शोकः परित्यक्तः सर्वकार्यावसादकः। विक्रमेष्वप्रतिहतं तेजःप्रोत्साहयाम्यहम् ॥ ४३ ॥ शरत्कालं प्रतीक्षिष्ये स्थितो ऽस्मि वचने तव। सुग्रीवस्य नदीनां च प्रसादमनुपालयन्॥४४॥ उपकारेण वीरस्तु प्रतिकारेण युज्यते । अकृतज्ञो
ऽप्रतिकृतो हन्ति सत्त्ववतां मनः ॥४५॥ शेषः॥४०॥४१॥ अनुरक्तेन अनुरागयुक्तेन । स्निग्धेन तत्कालोचितप्रियपरेण । हितेन हितपरेण ! सत्यविक्रमयुक्तेन अमोघविक्रमयुक्तेन । यद्वाच्य तत्सर्वं त्वयोक्तमिति संबन्धः ॥४२-४४॥ उपकारेणेति ।तुशब्दोऽवधारणे । उपकारेण युक्तो वीरः प्रतिकारेण युज्यत एव, प्रत्युपकारं करोत्येवेत्यर्थः। नहीति । विक्रमे जिनकारिणमिति पाठः । जिह्यकारिणं कुटिलम् । त्वम् अव्यवसितः उद्योगशून्यः शयं इन्तु न समर्थ इति योजना ॥३६॥ ३७ ॥ पृथिवी|A मिति । परिवर्तयितुम् अधरोत्तरयितुम् ॥ ३८ ॥ ३९ ॥ अहन्त्विति । अहं तु दीप्तेः दीपकः, वाक्यरिति शेषः ॥ १०॥४१॥ अनुरक्तेन अनुरागयुक्तेन । स्निग्धेन तत्कालोचितप्रियपरेण । हितेन उदकहितैषिणा । सत्यविक्रमयुक्तेन अमोघविक्रमयुक्तेन यद्वाच्यं तत्सर्व त्वयोक्तमिति सम्बन्धः ॥ ४२-४४॥ सुग्रीवस्त्ववश्य मस्माकं प्रत्युपकारं करिष्यतीत्याशयेनाह-उपकारेणेति । तुशब्दोऽवधारणे । उपकारेण युक्तो वीरः, केनचिकृतोपकारः पुरुष इत्यर्थः । प्रतीकारेण युज्यत एव ।।
For Private And Personal Use Only