________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
निवेद्येति । निवेद्य, रामसमीपमागत्य निवेद्येत्यर्थः॥४१॥ इति श्रीगोविन्द श्रीरामायण मुक्ता किष्किन्धाकाण्डव्याख्याने पड़िशः सर्गः॥२६॥ अथ रामस्यैकान्तवाससमुद्भूतसीताविरहशोकप्रशमनं लक्ष्मणेन कियते सप्तर्विशे-अभिषिक्त इत्यादि । शैलं शिलामयमिति मृच्छिलोभयमय । निवेद्य रामायतदा महात्मने महाभिषेकं कपिवाहिनीपतिः।रुमा च भार्या प्रतिलभ्य वीर्यवानवाप राज्यं त्रिदशा धिपोयथा॥४१॥ इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षड़िशः सर्गः ॥२६॥
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् । आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ॥१॥ शार्दूलमृगसंघुष्टं सिंहैीमरवैर्वृतम् । नानागुल्मलतागूढं बहुपादपसंकुलम् ॥२॥ ऋक्षवानरगोपुच्छर्मार्जारैश्च निषेवितम् । मेघराशि निभं शैलं नित्यं शुचिजलाश्रयम् ॥३॥ तस्य शैलस्य शिखरे महतीमायतां गुहाम् । प्रत्यगृहत वासार्थ रामः सौमित्रिणा सह ॥ ४॥ कृत्वा च समयं सौम्यः सुग्रीवेण सहानघः । कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः । विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम् ॥५॥ इयं गिरिगुहा रम्या विशाला युक्तमारुता । अस्यां वसाव सौति वर्षरात्रमरिंदम ॥६॥ गिरिशृङ्गमिदं रम्यमुन्नतं पार्थिवात्मज । श्वेताभिः कृष्णताम्राभिः शिलाभिरुपशोभितम्
॥७॥ नानाधातुसमाकीर्ण दरीनिर्झरशोभितम् । विविधैक्षषण्डैश्च चारु चित्रलतावृतम् ॥८॥ गिरिभ्यो व्यावृत्तिः। अतो न गिरि शैलमिति पुनरुक्तिः ॥ १-४ ॥ कृत्वेति । कालयुक्तं तत्कालोचितम् ॥ ५॥ युक्तमारुता उचितमारुता, यावदपेक्षमारुतेत्यर्थः । वसाव, लोडुत्तमद्विवचनम् । वर्षरात्रमिति । अच् समासान्त आपः । जात्येकवचनम् ॥ ६ ॥ गिरिशृङ्गमित्यादि ।
४१॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकारुयायां किष्किन्धाकाण्डव्याख्यायां पदिशः सर्गः ॥ २६ ॥ १-४॥ कृत्वेति । समयं कृत्वा शरदि पदण्डयात्रेति सङ्केतं कृत्वेत्यर्थः । कालयुक्तं तत्कालांचितम् । लदिमवर्धनमित्यत्र द्वस्वभछान्दसः ॥ ५ ॥ वर्षरात्रमिति जात्येकवचनमेतत् ॥६॥ ॥ दरीदईर।
* फलश्रुतिः । स्कान्दे-" अभिषेकं च ताराया स्मायाः प्राप्तिमुत्तमाम् । सुग्रीवस्प तदा श्रुत्वा राज्पलाम स गच्छति ॥” इति ॥ स०-गोपुच्छः नीलमुखबानरविशेषैः ॥ ३ ॥ बीबन्तलक्ष्मीशम्दोऽप्य स्तीति लक्ष्मिवर्धनमित्येतत् साधु । " द्राग्लश्मिमर्तगुणान् " इत्यादिप्रयोगात् ॥ ५॥ नदीदर्दुरसंयुतमिति पाठे-नद्यां विद्यमानमकसदशमहामष्ट्रकोपेतम् ॥ ८॥
For Private And Personal Use Only